ऋग्वेद · अध्याय 10.043
अच्छा म इन्द्रम् मतयः स्वर्विदः सध्रीचीर् विश्वा उशतीर् अनूषत ।
परि ष्वजन्ते जनयो यथा पतिम् मर्यं न शुन्ध्युम् मघवानम् ऊतये ॥
न घा त्वद्रिग् अप वेति मे मनस् त्वे इत् कामम् पुरुहूत शिश्रय ।
राजेव दस्म नि षदो ऽधि बर्हिष्य् अस्मिन् सु सोमे ऽवपानम् अस्तु ते ॥
विषूवृद् इन्द्रो अमतेर् उत क्षुधः स इद् रायो मघवा वस्व ईशते ।
तस्येद् इमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः ॥
वयो न वृक्षं सुपलाशम् आसदन् सोमास इन्द्रम् मन्दिनश् चमूषदः ।
प्रैषाम् अनीकं शवसा दविद्युतद् विदत् स्व1र् मनवे ज्योतिर् आर्यम् ॥
कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन् मघवा सूर्यं जयत् ।
न तत् ते अन्यो अनु वीर्यं शकन् न पुराणो मघवन् नोत नूतनः ॥
विशं-विशम् मघवा पर्य् अशायत जनानां धेना अवचाकशद् वृषा ।
यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः ॥
आपो न सिन्धुम् अभि यत् समक्षरन् सोमास इन्द्रं कुल्या इव ह्रदम् ।
वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर् दिव्येन दानुना ॥
वृषा न क्रुद्धः पतयद् रजःस्व् आ यो अर्यपत्नीर् अकृणोद् इमा अपः ।
स सुन्वते मघवा जीरदानवे ऽविन्दज् ज्योतिर् मनवे हविष्मते ॥
उज् जायताम् परशुर् ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत् ।
वि रोचताम् अरुषो भानुना शुचिः स्व1र् ण शुक्रं शुशुचीत सत्पतिः ॥
गोभिष् टरेमामतिं दुरेवां यवेन क्षुधम् पुरुहूत विश्वाम् ।
वयं राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम ॥
बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः ।
इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0