भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.042

10.042.01

अस्तेव सु प्रतरं लायम् अस्यन् भूषन्न् इव प्र भरा स्तोमम् अस्मै ।
वाचा विप्रास् तरत वाचम् अर्यो नि रामय जरितः सोम इन्द्रम् ॥

10.042.02

दोहेन गाम् उप शिक्षा सखायम् प्र बोधय जरितर् जारम् इन्द्रम् ।
कोशं न पूर्णं वसुना न्यृष्टम् आ च्यावय मघदेयाय शूरम् ॥

10.042.03

किम् अङ्ग त्वा मघवन् भोजम् आहुः शिशीहि मा शिशयं त्वा शृणोमि ।
अप्नस्वती मम धीर् अस्तु शक्र वसुविदम् भगम् इन्द्रा भरा नः ॥

10.042.04

त्वां जना ममसत्येष्व् इन्द्र संतस्थाना वि ह्वयन्ते समीके ।
अत्रा युजं कृणुते यो हविष्मान् नासुन्वता सख्यं वष्टि शूरः ॥

10.042.05

धनं न स्यन्द्रम् बहुलं यो अस्मै तीव्रान् सोमाँ आसुनोति प्रयस्वान् ।
तस्मै शत्रून् सुतुकान् प्रातर् अह्नो नि स्वष्ट्रान् युवति हन्ति वृत्रम् ॥

10.042.06

यस्मिन् वयं दधिमा शंसम् इन्द्रे यः शिश्राय मघवा कामम् अस्मे ।
आराच् चित् सन् भयताम् अस्य शत्रुर् न्य् अस्मै द्युम्ना जन्या नमन्ताम् ॥

10.042.07

आराच् छत्रुम् अप बाधस्व दूरम् उग्रो यः शम्बः पुरुहूत तेन ।
अस्मे धेहि यवमद् गोमद् इन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥

10.042.08

प्र यम् अन्तर् वृषसवासो अग्मन् तीव्राः सोमा बहुलान्तास इन्द्रम् ।
नाह दामानम् मघवा नि यंसन् नि सुन्वते वहति भूरि वामम् ॥

10.042.09

उत प्रहाम् अतिदीव्या जयाति कृतं यच् छ्वघ्नी विचिनोति काले ।
यो देवकामो न धना रुणद्धि सम् इत् तं राया सृजति स्वधावान् ॥

10.042.10

गोभिष् टरेमामतिं दुरेवां यवेन क्षुधम् पुरुहूत विश्वाम् ।
वयं राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम ॥

10.042.11

बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः ।
इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc