ऋग्वेद · अध्याय 10.037
नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद् ऋतं सपर्यत ।
दूरेदृशे देवजाताय केतवे दिवस् पुत्राय सूर्याय शंसत ॥
सा मा सत्योक्तिः परि पातु विश्वतो द्यावा च यत्र ततनन्न् अहानि च ।
विश्वम् अन्यन् नि विशते यद् एजति विश्वाहापो विश्वाहोद् एति सूर्यः ॥
न ते अदेवः प्रदिवो नि वासते यद् एतशेभिः पतरै रथर्यसि ।
प्राचीनम् अन्यद् अनु वर्तते रज उद् अन्येन ज्योतिषा यासि सूर्य ॥
येन सूर्य ज्योतिषा बाधसे तमो जगच् च विश्वम् उदियर्षि भानुना ।
तेनास्मद् विश्वाम् अनिराम् अनाहुतिम् अपामीवाम् अप दुष्ष्वप्न्यं सुव ॥
विश्वस्य हि प्रेषितो रक्षसि व्रतम् अहेळयन्न् उच्चरसि स्वधा अनु ।
यद् अद्य त्वा सूर्योपब्रवामहै तं नो देवा अनु मंसीरत क्रतुम् ॥
तं नो द्यावापृथिवी तन् न आप इन्द्रः शृण्वन्तु मरुतो हवं वचः ।
मा शूने भूम सूर्यस्य संदृशि भद्रं जीवन्तो जरणाम् अशीमहि ॥
विश्वाहा त्वा सुमनसः सुचक्षसः प्रजावन्तो अनमीवा अनागसः ।
उद्यन्तं त्वा मित्रमहो दिवे-दिवे ज्योग् जीवाः प्रति पश्येम सूर्य ॥
महि ज्योतिर् बिभ्रतं त्वा विचक्षण भास्वन्तं चक्षुषे-चक्षुषे मयः ।
आरोहन्तम् बृहतः पाजसस् परि वयं जीवाः प्रति पश्येम सूर्य ॥
यस्य ते विश्वा भुवनानि केतुना प्र चेरते नि च विशन्ते अक्तुभिः ।
अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नो वस्यसा-वस्यसोद् इहि ॥
शं नो भव चक्षसा शं नो अह्ना शम् भानुना शं हिमा शं घृणेन ।
यथा शम् अध्वञ् छम् असद् दुरोणे तत् सूर्य द्रविणं धेहि चित्रम् ॥
अस्माकं देवा उभयाय जन्मने शर्म यच्छत द्विपदे चतुष्पदे ।
अदत् पिबद् ऊर्जयमानम् आशितं तद् अस्मे शं योर् अरपो दधातन ॥
यद् वो देवाश् चकृम जिह्वया गुरु मनसो वा प्रयुती देवहेळनम् ।
अरावा यो नो अभि दुच्छुनायते तस्मिन् तद् एनो वसवो नि धेतन ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0