भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.036

10.036.01

उषासानक्ता बृहती सुपेशसा द्यावाक्षामा वरुणो मित्रो अर्यमा ।
इन्द्रं हुवे मरुतः पर्वताँ अप आदित्यान् द्यावापृथिवी अपः स्वः ॥

10.036.02

द्यौश् च नः पृथिवी च प्रचेतस ऋतावरी रक्षताम् अंहसो रिषः ।
मा दुर्विदत्रा निरृतिर् न ईशत तद् देवानाम् अवो अद्या वृणीमहे ॥

10.036.03

विश्वस्मान् नो अदितिः पात्व् अंहसो माता मित्रस्य वरुणस्य रेवतः ।
स्वर्वज् ज्योतिर् अवृकं नशीमहि तद् देवानाम् अवो अद्या वृणीमहे ॥

10.036.04

ग्रावा वदन्न् अप रक्षांसि सेधतु दुष्ष्वप्न्यं निरृतिं विश्वम् अत्रिणम् ।
आदित्यं शर्म मरुताम् अशीमहि तद् देवानाम् अवो अद्या वृणीमहे ॥

10.036.05

एन्द्रो बर्हिः सीदतु पिन्वताम् इळा बृहस्पतिः सामभिर् ऋक्वो अर्चतु ।
सुप्रकेतं जीवसे मन्म धीमहि तद् देवानाम् अवो अद्या वृणीमहे ॥

10.036.06

दिविस्पृशं यज्ञम् अस्माकम् अश्विना जीराध्वरं कृणुतं सुम्नम् इष्टये ।
प्राचीनरश्मिम् आहुतं घृतेन तद् देवानाम् अवो अद्या वृणीमहे ॥

10.036.07

उप ह्वये सुहवम् मारुतं गणम् पावकम् ऋष्वं सख्याय शम्भुवम् ।
रायस् पोषं सौश्रवसाय धीमहि तद् देवानाम् अवो अद्या वृणीमहे ॥

10.036.08

अपाम् पेरुं जीवधन्यम् भरामहे देवाव्यं सुहवम् अध्वरश्रियम् ।
सुरश्मिं सोमम् इन्द्रियं यमीमहि तद् देवानाम् अवो अद्या वृणीमहे ॥

10.036.09

सनेम तत् सुसनिता सनित्वभिर् वयं जीवा जीवपुत्रा अनागसः ।
ब्रह्मद्विषो विष्वग् एनो भरेरत तद् देवानाम् अवो अद्या वृणीमहे ॥

10.036.10

ये स्था मनोर् यज्ञियास् ते शृणोतन यद् वो देवा ईमहे तद् ददातन ।
जैत्रं क्रतुं रयिमद् वीरवद् यशस् तद् देवानाम् अवो अद्या वृणीमहे ॥

10.036.11

महद् अद्य महताम् आ वृणीमहे ऽवो देवानाम् बृहताम् अनर्वणाम् ।
यथा वसु वीरजातं नशामहै तद् देवानाम् अवो अद्या वृणीमहे ॥

10.036.12

महो अग्नेः समिधानस्य शर्मण्य् अनागा मित्रे वरुणे स्वस्तये ।
श्रेष्ठे स्याम सवितुः सवीमनि तद् देवानाम् अवो अद्या वृणीमहे ॥

10.036.13

ये सवितुः सत्यसवस्य विश्वे मित्रस्य व्रते वरुणस्य देवाः ।
ते सौभगं वीरवद् गोमद् अप्नो दधातन द्रविणं चित्रम् अस्मे ॥

10.036.14

सविता पश्चातात् सविता पुरस्तात् सवितोत्तरात्तात् सविताधरात्तात् ।
सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घम् आयुः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc