भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.020

10.020.01

भद्रं नो अपि वातय मनः ॥

10.020.02

अग्निम् ईळे भुजां यविष्ठं शासा मित्रं दुर्धरीतुम् ।
यस्य धर्मन् स्व1र् एनीः सपर्यन्ति मातुर् ऊधः ॥

10.020.03

यम् आसा कृपनीळम् भासाकेतुं वर्धयन्ति ।
भ्राजते श्रेणिदन् ॥

10.020.04

अर्यो विशां गातुर् एति प्र यद् आनड् दिवो अन्तान् ।
कविर् अभ्रं दीद्यानः ॥

10.020.05

जुषद् धव्या मानुषस्योर्ध्वस् तस्थाव् ऋभ्वा यज्ञे ।
मिन्वन् सद्म पुर एति ॥

10.020.06

स हि क्षेमो हविर् यज्ञः श्रुष्टीद् अस्य गातुर् एति ।
अग्निं देवा वाशीमन्तम् ॥

10.020.07

यज्ञासाहं दुव इषे ऽग्निम् पूर्वस्य शेवस्य ।
अद्रेः सूनुम् आयुम् आहुः ॥

10.020.08

नरो ये के चास्मद् आ विश्वेत् ते वाम आ स्युः ।
अग्निं हविषा वर्धन्तः ॥

10.020.09

कृष्णः श्वेतो ऽरुषो यामो अस्य ब्रध्न ऋज्र उत शोणो यशस्वान् ।
हिरण्यरूपं जनिता जजान ॥

10.020.10

एवा ते अग्ने विमदो मनीषाम् ऊर्जो नपाद् अमृतेभिः सजोषाः ।
गिर आ वक्षत् सुमतीर् इयान इषम् ऊर्जं सुक्षितिं विश्वम् आभाः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc