भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.019

10.019.01

नि वर्तध्वम् मानु गातास्मान् सिषक्त रेवतीः ।
अग्नीषोमा पुनर्वसू अस्मे धारयतं रयिम् ॥

10.019.02

पुनर् एना नि वर्तय पुनर् एना न्य् आ कुरु ।
इन्द्र एणा नि यच्छत्व् अग्निर् एना उपाजतु ॥

10.019.03

पुनर् एता नि वर्तन्ताम् अस्मिन् पुष्यन्तु गोपतौ ।
इहैवाग्ने नि धारयेह तिष्ठतु या रयिः ॥

10.019.04

यन् नियानं न्ययनं संज्ञानं यत् परायणम् ।
आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥

10.019.05

य उदानड् व्ययनं य उदानट् परायणम् ।
आवर्तनं निवर्तनम् अपि गोपा नि वर्तताम् ॥

10.019.06

आ निवर्त नि वर्तय पुनर् न इन्द्र गा देहि ।
जीवाभिर् भुनजामहै ॥

10.019.07

परि वो विश्वतो दध ऊर्जा घृतेन पयसा ।
ये देवाः के च यज्ञियास् ते रय्या सं सृजन्तु नः ॥

10.019.08

आ निवर्तन वर्तय नि निवर्तन वर्तय ।
भूम्याश् चतस्रः प्रदिशस् ताभ्य एना नि वर्तय ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc