ऋग्वेद · अध्याय 10.014
परेयिवांसम् प्रवतो महीर् अनु बहुभ्यः पन्थाम् अनुपस्पशानम् ।
वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्य ॥
यमो नो गातुम् प्रथमो विवेद नैषा गव्यूतिर् अपभर्तवा उ ।
यत्रा नः पूर्वे पितरः परेयुर् एना जज्ञानाः पथ्या3 अनु स्वाः ॥
मातली कव्यैर् यमो अङ्गिरोभिर् बृहस्पतिर् ऋक्वभिर् वावृधानः ।
याँश् च देवा वावृधुर् ये च देवान् स्वाहान्ये स्वधयान्ये मदन्ति ॥
इमं यम प्रस्तरम् आ हि सीदाङ्गिरोभिः पितृभिः संविदानः ।
आ त्वा मन्त्राः कविशस्ता वहन्त्व् एना राजन् हविषा मादयस्व ॥
अङ्गिरोभिर् आ गहि यज्ञियेभिर् यम वैरूपैर् इह मादयस्व ।
विवस्वन्तं हुवे यः पिता ते ऽस्मिन् यज्ञे बर्हिष्य् आ निषद्य ॥
अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः ।
तेषां वयं सुमतौ यज्ञियानाम् अपि भद्रे सौमनसे स्याम ॥
प्रेहि प्रेहि पथिभिः पूर्व्येभिर् यत्रा नः पूर्वे पितरः परेयुः ।
उभा राजाना स्वधया मदन्ता यमम् पश्यासि वरुणं च देवम् ॥
सं गच्छस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन् ।
हित्वायावद्यम् पुनर् अस्तम् एहि सं गच्छस्व तन्वा सुवर्चाः ॥
अपेत वीत वि च सर्पतातो ऽस्मा एतम् पितरो लोकम् अक्रन् ।
अहोभिर् अद्भिर् अक्तुभिर् व्यक्तं यमो ददात्य् अवसानम् अस्मै ॥
अति द्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा ।
अथा पितॄन् सुविदत्राँ उपेहि यमेन ये सधमादम् मदन्ति ॥
यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसौ ।
ताभ्याम् एनम् परि देहि राजन् स्वस्ति चास्मा अनमीवं च धेहि ॥
उरूणसाव् असुतृपा उदुम्बलौ यमस्य दूतौ चरतो जनाँ अनु ।
ताव् अस्मभ्यं दृशये सूर्याय पुनर् दाताम् असुम् अद्येह भद्रम् ॥
यमाय सोमं सुनुत यमाय जुहुता हविः ।
यमं ह यज्ञो गच्छत्य् अग्निदूतो अरंकृतः ॥
यमाय घृतवद् धविर् जुहोत प्र च तिष्ठत ।
स नो देवेष्व् आ यमद् दीर्घम् आयुः प्र जीवसे ॥
यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन ।
इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥
त्रिकद्रुकेभिः पतति षळ् उर्वीर् एकम् इद् बृहत् ।
त्रिष्टुब् गायत्री छन्दांसि सर्वा ता यम आहिता ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0