भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.013

10.013.01

युजे वाम् ब्रह्म पूर्व्यं नमोभिर् वि श्लोक एतु पथ्येव सूरेः ।
शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥

10.013.02

यमे इव यतमाने यद् ऐतम् प्र वाम् भरन् मानुषा देवयन्तः ।
आ सीदतं स्वम् उ लोकं विदाने स्वासस्थे भवतम् इन्दवे नः ॥

10.013.03

पञ्च पदानि रुपो अन्व् अरोहं चतुष्पदीम् अन्व् एमि व्रतेन ।
अक्षरेण प्रति मिम एताम् ऋतस्य नाभाव् अधि सम् पुनामि ॥

10.013.04

देवेभ्यः कम् अवृणीत मृत्युम् प्रजायै कम् अमृतं नावृणीत ।
बृहस्पतिं यज्ञम् अकृण्वत ऋषिम् प्रियां यमस् तन्व1म् प्रारिरेचीत् ॥

10.013.05

सप्त क्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्य् अवीवतन्न् ऋतम् ।
उभे इद् अस्योभयस्य राजत उभे यतेते उभयस्य पुष्यतः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc