भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.012

10.012.01

द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा ।
देवो यन् मर्तान् यजथाय कृण्वन् सीदद् धोता प्रत्यङ् स्वम् असुं यन् ॥

10.012.02

देवो देवान् परिभूर् ऋतेन वहा नो हव्यम् प्रथमश् चिकित्वान् ।
धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान् ॥

10.012.03

स्वावृग् देवस्यामृतं यदी गोर् अतो जातासो धारयन्त उर्वी ।
विश्वे देवा अनु तत् ते यजुर् गुर् दुहे यद् एनी दिव्यं घृतं वाः ॥

10.012.04

अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे ।
अहा यद् द्यावो ऽसुनीतिम् अयन् मध्वा नो अत्र पितरा शिशीताम् ॥

10.012.05

किं स्विन् नो राजा जगृहे कद् अस्याति व्रतं चकृमा को वि वेद ।
मित्रश् चिद् धि ष्मा जुहुराणो देवाञ् छ्लोको न याताम् अपि वाजो अस्ति ॥

10.012.06

दुर्मन्त्व् अत्रामृतस्य नाम सलक्ष्मा यद् विषुरूपा भवाति ।
यमस्य यो मनवते सुमन्त्व् अग्ने तम् ऋष्व पाह्य् अप्रयुच्छन् ॥

10.012.07

यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते ।
सूर्ये ज्योतिर् अदधुर् मास्य् अ1क्तून् परि द्योतनिं चरतो अजस्रा ॥

10.012.08

यस्मिन् देवा मन्मनि संचरन्त्य् अपीच्ये3 न वयम् अस्य विद्म ।
मित्रो नो अत्रादितिर् अनागान् सविता देवो वरुणाय वोचत् ॥

10.012.09

श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथम् अमृतस्य द्रवित्नुम् ।
आ नो वह रोदसी देवपुत्रे माकिर् देवानाम् अप भूर् इह स्याः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc