भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.011

10.011.01

वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेर् अदाभ्यः ।
विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजतु यज्ञियाँ ऋतून् ॥

10.011.02

रपद् गन्धर्वीर् अप्या च योषणा नदस्य नादे परि पातु मे मनः ।
इष्टस्य मध्ये अदितिर् नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥

10.011.03

सो चिन् नु भद्रा क्षुमती यशस्वत्य् उषा उवास मनवे स्वर्वती ।
यद् ईम् उशन्तम् उशताम् अनु क्रतुम् अग्निं होतारं विदथाय जीजनन् ॥

10.011.04

अध त्यं द्रप्सं विभ्वं विचक्षणं विर् आभरद् इषितः श्येनो अध्वरे ।
यदी विशो वृणते दस्मम् आर्या अग्निं होतारम् अध धीर् अजायत ॥

10.011.05

सदासि रण्वो यवसेव पुष्यते होत्राभिर् अग्ने मनुषः स्वध्वरः ।
विप्रस्य वा यच् छशमान उक्थ्य1ं वाजं ससवाँ उपयासि भूरिभिः ॥

10.011.06

उद् ईरय पितरा जार आ भगम् इयक्षति हर्यतो हृत्त इष्यति ।
विवक्ति वह्निः स्वपस्यते मखस् तविष्यते असुरो वेपते मती ॥

10.011.07

यस् ते अग्ने सुमतिम् मर्तो अक्षत् सहसः सूनो अति स प्र शृण्वे ।
इषं दधानो वहमानो अश्वैर् आ स द्युमाँ अमवान् भूषति द्यून् ॥

10.011.08

यद् अग्न एषा समितिर् भवाति देवी देवेषु यजता यजत्र ।
रत्ना च यद् विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ॥

10.011.09

श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथम् अमृतस्य द्रवित्नुम् ।
आ नो वह रोदसी देवपुत्रे माकिर् देवानाम् अप भूर् इह स्याः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc