ऋग्वेद · अध्याय 10.010
ओ चित् सखायं सख्या ववृत्यां तिरः पुरू चिद् अर्णवं जगन्वान् ।
पितुर् नपातम् आ दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥
न ते सखा सख्यं वष्ट्य् एतत् सलक्ष्मा यद् विषुरूपा भवाति ।
महस् पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥
उशन्ति घा ते अमृतास एतद् एकस्य चित् त्यजसम् मर्त्यस्य ।
नि ते मनो मनसि धाय्य् अस्मे जन्युः पतिस् तन्व1म् आ विविश्याः ॥
न यत् पुरा चकृमा कद् ध नूनम् ऋता वदन्तो अनृतं रपेम ।
गन्धर्वो अप्स्व् अप्या च योषा सा नो नाभिः परमं जामि तन् नौ ॥
गर्भे नु नौ जनिता दम्पती कर् देवस् त्वष्टा सविता विश्वरूपः ।
नकिर् अस्य प्र मिनन्ति व्रतानि वेद नाव् अस्य पृथिवी उत द्यौः ॥
को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत् ।
बृहन् मित्रस्य वरुणस्य धाम कद् उ ब्रव आहनो वीच्या नॄन् ॥
यमस्य मा यम्य1ं काम आगन् समाने योनौ सहशेय्याय ।
जायेव पत्ये तन्वं रिरिच्यां वि चिद् वृहेव रथ्येव चक्रा ॥
न तिष्ठन्ति न नि मिषन्त्य् एते देवानां स्पश इह ये चरन्ति ।
अन्येन मद् आहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ॥
रात्रीभिर् अस्मा अहभिर् दशस्येत् सूर्यस्य चक्षुर् मुहुर् उन् मिमीयात् ।
दिवा पृथिव्या मिथुना सबन्धू यमीर् यमस्य बिभृयाद् अजामि ॥
आ घा ता गच्छान् उत्तरा युगानि यत्र जामयः कृणवन्न् अजामि ।
उप बर्बृहि वृषभाय बाहुम् अन्यम् इच्छस्व सुभगे पतिम् मत् ॥
किम् भ्रातासद् यद् अनाथम् भवाति किम् उ स्वसा यन् निरृतिर् निगच्छात् ।
काममूता बह्व् ए3तद् रपामि तन्वा मे तन्व1ं सम् पिपृग्धि ॥
न वा उ ते तन्वा तन्व1ं सम् पपृच्याम् पापम् आहुर् यः स्वसारं निगच्छात् ।
अन्येन मत् प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्य् एतत् ॥
बतो बतासि यम नैव ते मनो हृदयं चाविदाम ।
अन्या किल त्वां कक्ष्येव युक्तम् परि ष्वजाते लिबुजेव वृक्षम् ॥
अन्यम् ऊ षु त्वं यम्य् अन्य उ त्वाम् परि ष्वजाते लिबुजेव वृक्षम् ।
तस्य वा त्वम् मन इच्छा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0