भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.006

10.006.01

अयं स यस्य शर्मन्न् अवोभिर् अग्नेर् एधते जरिताभिष्टौ ।
ज्येष्ठेभिर् यो भानुभिर् ऋषूणाम् पर्येति परिवीतो विभावा ॥

10.006.02

यो भानुभिर् विभावा विभात्य् अग्निर् देवेभिर् ऋतावाजस्रः ।
आ यो विवाय सख्या सखिभ्यो ऽपरिह्वृतो अत्यो न सप्तिः ॥

10.006.03

ईशे यो विश्वस्या देववीतेर् ईशे विश्वायुर् उषसो व्युष्टौ ।
आ यस्मिन् मना हवींष्य् अग्नाव् अरिष्टरथः स्कभ्नाति शूषैः ॥

10.006.04

शूषेभिर् वृधो जुषाणो अर्कैर् देवाँ अच्छा रघुपत्वा जिगाति ।
मन्द्रो होता स जुह्वा3 यजिष्ठः सम्मिश्लो अग्निर् आ जिघर्ति देवान् ॥

10.006.05

तम् उस्राम् इन्द्रं न रेजमानम् अग्निं गीर्भिर् नमोभिर् आ कृणुध्वम् ।
आ यं विप्रासो मतिभिर् गृणन्ति जातवेदसं जुह्वं सहानाम् ॥

10.006.06

सं यस्मिन् विश्वा वसूनि जग्मुर् वाजे नाश्वाः सप्तीवन्त एवैः ।
अस्मे ऊतीर् इन्द्रवाततमा अर्वाचीना अग्न आ कृणुष्व ॥

10.006.07

अधा ह्य् अग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ ।
तं ते देवासो अनु केतम् आयन्न् अधावर्धन्त प्रथमास ऊमाः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc