भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.180

1.180.01

युवो रजांसि सुयमासो अश्वा रथो यद् वाम् पर्य् अर्णांसि दीयत् ।
हिरण्यया वाम् पवयः प्रुषायन् मध्वः पिबन्ता उषसः सचेथे ॥

1.180.02

युवम् अत्यस्याव नक्षथो यद् विपत्मनो नर्यस्य प्रयज्योः ।
स्वसा यद् वां विश्वगूर्ती भराति वाजायेट्टे मधुपाव् इषे च ॥

1.180.03

युवम् पय उस्रियायाम् अधत्तम् पक्वम् आमायाम् अव पूर्व्यं गोः ।
अन्तर् यद् वनिनो वाम् ऋतप्सू ह्वारो न शुचिर् यजते हविष्मान् ॥

1.180.04

युवं ह घर्मम् मधुमन्तम् अत्रये ऽपो न क्षोदो ऽवृणीतम् एषे ।
तद् वां नराव् अश्विना पश्वïष्टी रथ्येव चक्रा प्रति यन्ति मध्वः ॥

1.180.05

आ वां दानाय ववृतीय दस्रा गोर् ओहेण तौग्र्यो न जिव्रिः ।
अपः क्षोणी सचते माहिना वां जूर्णो वाम् अक्षुर् अंहसो यजत्रा ॥

1.180.06

नि यद् युवेथे नियुतः सुदानू उप स्वधाभिः सृजथः पुरंधिम् ।
प्रेषद् वेषद् वातो न सूरिर् आ महे ददे सुव्रतो न वाजम् ॥

1.180.07

वयं चिद् धि वां जरितारः सत्या विपन्यामहे वि पणिर् हितावान् ।
अधा चिद् धि ष्माश्विनाव् अनिन्द्या पाथो हि ष्मा वृषणाव् अन्तिदेवम् ॥

1.180.08

युवां चिद् धि ष्माश्विनाव् अनु द्यून् विरुद्रस्य प्रस्रवणस्य सातौ ।
अगस्त्यो नरां नृषु प्रशस्तः काराधुनीव चितयत् सहस्रैः ॥

1.180.09

प्र यद् वहेथे महिना रथस्य प्र स्यन्द्रा याथो मनुषो न होता ।
धत्तं सूरिभ्य उत वा स्वश्व्यं नासत्या रयिषाचः स्याम ॥

1.180.10

तं वां रथं वयम् अद्या हुवेम स्तोमैर् अश्विना सुविताय नव्यम् ।
अरिष्टनेमिम् परि द्याम् इयानं विद्यामेषं वृजनं जीरदानुम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc