ऋग्वेद · अध्याय 1.179
पूर्वीर् अहं शरदः शश्रमाणा दोषा वस्तोर् उषसो जरयन्तीः ।
मिनाति श्रियं जरिमा तनूनाम् अप्य् ऊ नु पत्नीर् वृषणो जगम्युः ॥
ये चिद् धि पूर्व ऋतसाप आसन् साकं देवेभिर् अवदन्न् ऋतानि ।
ते चिद् अवासुर् नह्य् अन्तम् आपुः सम् ऊ नु पत्नीर् वृषभिर् जगम्युः ॥
न मृषा श्रान्तं यद् अवन्ति देवा विश्वा इत् स्पृधो अभ्य् अश्नवाव ।
जयावेद् अत्र शतनीथम् आजिं यत् सम्यञ्चा मिथुनाव् अभ्य् अजाव ॥
नदस्य मा रुधतः काम आगन्न् इत आजातो अमुतः कुतश् चित् ।
लोपामुद्रा वृषणं नी रिणाति धीरम् अधीरा धयति श्वसन्तम् ॥
इमं नु सोमम् अन्तितो हृत्सु पीतम् उप ब्रुवे ।
यत् सीम् आगश् चकृमा तत् सु मृळतु पुलुकामो हि मर्त्यः ॥
अगस्त्यः खनमानः खनित्रैः प्रजाम् अपत्यम् बलम् इच्छमानः ।
उभौ वर्णाव् ऋषिर् उग्रः पुपोष सत्या देवेष्व् आशिषो जगाम ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0