ऋग्वेद · अध्याय 1.178
यद् ध स्या त इन्द्र श्रुष्टिर् अस्ति यया बभूथ जरितृभ्य ऊती ।
मा नः कामम् महयन्तम् आ धग् विश्वा ते अश्याम् पर्य् आप आयोः ॥
न घा राजेन्द्र आ दभन् नो या नु स्वसारा कृणवन्त योनौ ।
आपश् चिद् अस्मै सुतुका अवेषन् गमन् न इन्द्रः सख्या वयश् च ॥
जेता नृभिर् इन्द्रः पृत्सु शूरः श्रोता हवं नाधमानस्य कारोः ।
प्रभर्ता रथं दाशुष उपाक उद्यन्ता गिरो यदि च त्मना भूत् ॥
एवा नृभिर् इन्द्रः सुश्रवस्या प्रखादः पृक्षो अभि मित्रिणो भूत् ।
समर्य इषः स्तवते विवाचि सत्राकरो यजमानस्य शंसः ॥
त्वया वयम् मघवन्न् इन्द्र शत्रून् अभि ष्याम महतो मन्यमानान् ।
त्वं त्राता त्वम् उ नो वृधे भूर् विद्यामेषं वृजनं जीरदानुम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0