ऋग्वेद · अध्याय 1.173
गायत् साम नभन्य1ं यथा वेर् अर्चाम तद् वावृधानं स्वर्वत् ।
गावो धेनवो बर्हिष्य् अदब्धा आ यत् सद्मानं दिव्यं विवासान् ॥
अर्चद् वृषा वृषभिः स्वेदुहव्यैर् मृगो नाश्नो अति यज् जुगुर्यात् ।
प्र मन्दयुर् मनां गूर्त होता भरते मर्यो मिथुना यजत्रः ॥
नक्षद् धोता परि सद्म मिता यन् भरद् गर्भम् आ शरदः पृथिव्याः ।
क्रन्दद् अश्वो नयमानो रुवद् गौर् अन्तर् दूतो न रोदसी चरद् वाक् ॥
ता कर्माषतरास्मै प्र च्यौत्नानि देवयन्तो भरन्ते ।
जुजोषद् इन्द्रो दस्मवर्चा नासत्येव सुग्म्यो रथेष्ठाः ॥
तम् उ ष्टुहीन्द्रं यो ह सत्वा यः शूरो मघवा यो रथेष्ठाः ।
प्रतीचश् चिद् योधीयान् वृषण्वान् ववव्रुषश् चित् तमसो विहन्ता ॥
प्र यद् इत्था महिना नृभ्यो अस्त्य् अरं रोदसी कक्ष्ये3 नास्मै ।
सं विव्य इन्द्रो वृजनं न भूमा भर्ति स्वधावाँ ओपशम् इव द्याम् ॥
समत्सु त्वा शूर सताम् उराणम् प्रपथिन्तमम् परितंसयध्यै ।
सजोषस इन्द्रम् मदे क्षोणीः सूरिं चिद् ये अनुमदन्ति वाजैः ॥
एवा हि ते शं सवना समुद्र आपो यत् त आसु मदन्ति देवीः ।
विश्वा ते अनु जोष्या भूद् गौः सूरीँश् चिद् यदि धिषा वेषि जनान् ॥
असाम यथा सुषखाय एन स्वभिष्टयो नरां न शंसैः ।
असद् यथा न इन्द्रो वन्दनेष्ठास् तुरो न कर्म नयमान उक्था ॥
विष्पर्धसो नरां न शंसैर् अस्माकासद् इन्द्रो वज्रहस्तः ।
मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः ॥
यज्ञो हि ष्मेन्द्रं कश् चिद् ऋन्धञ् जुहुराणश् चिन् मनसा परियन् ।
तीर्थे नाच्छा तातृषाणम् ओको दीर्घो न सिध्रम् आ कृणोत्य् अध्वा ॥
मो षू ण इन्द्रात्र पृत्सु देवैर् अस्ति हि ष्मा ते शुष्मिन्न् अवयाः ।
महश् चिद् यस्य मीळ्हुषो यव्या हविष्मतो मरुतो वन्दते गीः ॥
एष स्तोम इन्द्र तुभ्यम् अस्मे एतेन गातुं हरिवो विदो नः ।
आ नो ववृत्याः सुविताय देव विद्यामेषं वृजनं जीरदानुम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0