भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.168

1.168.01

यज्ञा-यज्ञा वः समना तुतुर्वणिर् धियं-धियं वो देवया उ दधिध्वे ।
आ वो ऽर्वाचः सुविताय रोदस्योर् महे ववृत्याम् अवसे सुवृक्तिभिः ॥

1.168.02

वव्रासो न ये स्वजाः स्वतवस इषं स्वर् अभिजायन्त धूतयः ।
सहस्रियासो अपां नोर्मय आसा गावो वन्द्यासो नोक्षणः ॥

1.168.03

सोमासो न ये सुतास् तृप्तांशवो हृत्सु पीतासो दुवसो नासते ।
ऐषाम् अंसेषु रम्भिणीव रारभे हस्तेषु खादिश् च कृतिश् च सं दधे ॥

1.168.04

अव स्वयुक्ता दिव आ वृथा ययुर् अमर्त्याः कशया चोदत त्मना ।
अरेणवस् तुविजाता अचुच्यवुर् दृळ्हानि चिन् मरुतो भ्राजदृष्टयः ॥

1.168.05

को वो ऽन्तर् मरुत ऋष्टिविद्युतो रेजति त्मना हन्वेव जिह्वया ।
धन्वच्युत इषां न यामनि पुरुप्रैषा अहन्यो3 नैतशः ॥

1.168.06

क्व स्विद् अस्य रजसो महस् परं क्वावरम् मरुतो यस्मिन्न् आयय ।
यच् च्यावयथ विथुरेव संहितं व्य् अद्रिणा पतथ त्वेषम् अर्णवम् ॥

1.168.07

सातिर् न वो ऽमवती स्वर्वती त्वेषा विपाका मरुतः पिपिष्वती ।
भद्रा वो रातिः पृणतो न दक्षिणा पृथुज्रयी असुर्येव जञ्जती ॥

1.168.08

प्रति ष्टोभन्ति सिन्धवः पविभ्यो यद् अभ्रियां वाचम् उदीरयन्ति ।
अव स्मयन्त विद्युतः पृथिव्यां यदी घृतम् मरुतः प्रुष्णुवन्ति ॥

1.168.09

असूत पृश्निर् महते रणाय त्वेषम् अयासाम् मरुताम् अनीकम् ।
ते सप्सरासो ऽजनयन्ताभ्वम् आद् इत् स्वधाम् इषिराम् पर्य् अपश्यन् ॥

1.168.10

एष वः स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः ।
एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc