ऋग्वेद · अध्याय 1.167
सहस्रं त इन्द्रोतयो नः सहस्रम् इषो हरिवो गूर्ततमाः ।
सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः ॥
आ नो ऽवोभिर् मरुतो यान्त्व् अच्छा ज्येष्ठेभिर् वा बृहद्दिवैः सुमायाः ।
अध यद् एषां नियुतः परमाः समुद्रस्य चिद् धनयन्त पारे ॥
मिम्यक्ष येषु सुधिता घृताची हिरण्यनिर्णिग् उपरा न ऋष्टिः ।
गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं वाक् ॥
परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः ।
न रोदसी अप नुदन्त घोरा जुषन्त वृधं सख्याय देवाः ॥
जोषद् यद् ईम् असुर्या सचध्यै विषितस्तुका रोदसी नृमणाः ।
आ सूर्येव विधतो रथं गात् त्वेषप्रतीका नभसो नेत्या ॥
आस्थापयन्त युवतिं युवानः शुभे निमिश्लां विदथेषु पज्राम् ।
अर्को यद् वो मरुतो हविष्मान् गायद् गाथं सुतसोमो दुवस्यन् ॥
प्र तं विवक्मि वक्म्यो य एषाम् मरुताम् महिमा सत्यो अस्ति ।
सचा यद् ईं वृषमणा अहंयुः स्थिरा चिज् जनीर् वहते सुभागाः ॥
पान्ति मित्रावरुणाव् अवद्याच् चयत ईम् अर्यमो अप्रशस्तान् ।
उत च्यवन्ते अच्युता ध्रुवाणि वावृध ईम् मरुतो दातिवारः ॥
नही नु वो मरुतो अन्त्य् अस्मे आरात्ताच् चिच् छवसो अन्तम् आपुः ।
ते धृष्णुना शवसा शूशुवांसो ऽर्णो न द्वेषो धृषता परि ष्ठुः ॥
वयम् अद्येन्द्रस्य प्रेष्ठा वयं श्वो वोचेमहि समर्ये ।
वयम् पुरा महि च नो अनु द्यून् तन् न ऋभुक्षा नराम् अनु ष्यात् ॥
एष वः स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः ।
एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0