भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.166

1.166.01

तन् नु वोचाम रभसाय जन्मने पूर्वम् महित्वं वृषभस्य केतवे ।
ऐधेव यामन् मरुतस् तुविष्वणो युधेव शक्रास् तविषाणि कर्तन ॥

1.166.02

नित्यं न सूनुम् मधु बिभ्रत उप क्रीळन्ति क्रीळा विदथेषु घृष्वयः ।
नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति स्वतवसो हविष्कृतम् ॥

1.166.03

यस्मा ऊमासो अमृता अरासत रायस् पोषं च हविषा ददाशुषे ।
उक्षन्त्य् अस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुवः ॥

1.166.04

आ ये रजांसि तविषीभिर् अव्यत प्र व एवासः स्वयतासो अध्रजन् ।
भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामः प्रयतास्व् ऋष्टिषु ॥

1.166.05

यत् त्वेषयामा नदयन्त पर्वतान् दिवो वा पृष्ठं नर्या अचुच्यवुः ।
विश्वो वो अज्मन् भयते वनस्पती रथीयन्तीव प्र जिहीत ओषधिः ॥

1.166.06

यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिम् पिपर्तन ।
यत्रा वो दिद्युद् रदति क्रिविर्दती रिणाति पश्वः सुधितेव बर्हणा ॥

1.166.07

प्र स्कम्भदेष्णा अनवभ्रराधसो ऽलातृणासो विदथेषु सुष्टुताः ।
अर्चन्त्य् अर्कम् मदिरस्य पीतये विदुर् वीरस्य प्रथमानि पौंस्या ॥

1.166.08

शतभुजिभिस् तम् अभिह्रुतेर् अघात् पूर्भी रक्षता मरुतो यम् आवत ।
जनं यम् उग्रास् तवसो विरप्शिनः पाथना शंसात् तनयस्य पुष्टिषु ॥

1.166.09

विश्वानि भद्रा मरुतो रथेषु वो मिथस्पृध्येव तविषाण्य् आहिता ।
अंसेष्व् आ वः प्रपथेषु खादयो ऽक्षो वश् चक्रा समया वि वावृते ॥

1.166.10

भूरीणि भद्रा नर्येषु बाहुषु वक्षःसु रुक्मा रभसासो अञ्जयः ।
अंसेष्व् एताः पविषु क्षुरा अधि वयो न पक्षान् व्य् अनु श्रियो धिरे ॥

1.166.11

महान्तो मह्ना विभ्वो3 विभूतयो दूरेदृशो ये दिव्या इव स्तृभिः ।
मन्द्राः सुजिह्वाः स्वरितार आसभिः सम्मिश्ला इन्द्रे मरुतः परिष्टुभः ॥

1.166.12

तद् वः सुजाता मरुतो महित्वनं दीर्घं वो दात्रम् अदितेर् इव व्रतम् ।
इन्द्रश् चन त्यजसा वि ह्रुणाति तज् जनाय यस्मै सुकृते अराध्वम् ॥

1.166.13

तद् वो जामित्वम् मरुतः परे युगे पुरू यच् छंसम् अमृतास आवत ।
अया धिया मनवे श्रुष्टिम् आव्या साकं नरो दंसनैर् आ चिकित्रिरे ॥

1.166.14

येन दीर्घम् मरुतः शूशवाम युष्माकेन परीणसा तुरासः ।
आ यत् ततनन् वृजने जनास एभिर् यज्ञेभिस् तद् अभीष्टिम् अश्याम् ॥

1.166.15

एष वः स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः ।
एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc