भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.161

1.161.01

किम् उ श्रेष्ठः किं यविष्ठो न आजगन् किम् ईयते दूत्य1ं कद् यद् ऊचिम ।
न निन्दिम चमसं यो महाकुलो ऽग्ने भ्रातर् द्रुण इद् भूतिम् ऊदिम ॥

1.161.02

एकं चमसं चतुरः कृणोतन तद् वो देवा अब्रुवन् तद् व आगमम् ।
सौधन्वना यद्य् एवा करिष्यथ साकं देवैर् यज्ञियासो भविष्यथ ॥

1.161.03

अग्निं दूतम् प्रति यद् अब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः ।
धेनुः कर्त्वा युवशा कर्त्वा द्वा तानि भ्रातर् अनु वः कृत्व्य् एमसि ॥

1.161.04

चकृवांस ऋभवस् तद् अपृच्छत क्वेद् अभूद् यः स्य दूतो न आजगन् ।
यदावाख्यच् चमसाञ् चतुरः कृतान् आद् इत् त्वष्टा ग्नास्व् अन्तर् न्य् आनजे ॥

1.161.05

हनामैनाँ इति त्वष्टा यद् अब्रवीच् चमसं ये देवपानम् अनिन्दिषुः ।
अन्या नामानि कृण्वते सुते सचाँ अन्यैर् एनान् कन्या3 नामभिः स्परत् ॥

1.161.06

इन्द्रो हरी युयुजे अश्विना रथम् बृहस्पतिर् विश्वरूपाम् उपाजत ।
ऋभुर् विभ्वा वाजो देवाँ अगच्छत स्वपसो यज्ञियम् भागम् ऐतन ॥

1.161.07

निश् चर्मणो गाम् अरिणीत धीतिभिर् या जरन्ता युवशा ताकृणोतन ।
सौधन्वना अश्वाद् अश्वम् अतक्षत युक्त्वा रथम् उप देवाँ अयातन ॥

1.161.08

इदम् उदकम् पिबतेत्य् अब्रवीतनेदं वा घा पिबता मुञ्जनेजनम् ।
सौधन्वना यदि तन् नेव हर्यथ तृतीये घा सवने मादयाध्वै ॥

1.161.09

आपो भूयिष्ठा इत्य् एको अब्रवीद् अग्निर् भूयिष्ठ इत्य् अन्यो अब्रवीत् ।
वधर्यन्तीम् बहुभ्यः प्रैको अब्रवीद् ऋता वदन्तश् चमसाँ अपिंशत ॥

1.161.10

श्रोणाम् एक उदकं गाम् अवाजति मांसम् एकः पिंशति सूनयाभृतम् ।
आ निम्रुचः शकृद् एको अपाभरत् किं स्वित् पुत्रेभ्यः पितरा उपावतुः ॥

1.161.11

उद्वत्स्व् अस्मा अकृणोतना तृणं निवत्स्व् अपः स्वपस्यया नरः ।
अगोह्यस्य यद् असस्तना गृहे तद् अद्येदम् ऋभवो नानु गच्छथ ॥

1.161.12

सम्मील्य यद् भुवना पर्यसर्पत क्व स्वित् तात्या पितरा व आसतुः ।
अशपत यः करस्नं व आददे यः प्राब्रवीत् प्रो तस्मा अब्रवीतन ॥

1.161.13

सुषुप्वांस ऋभवस् तद् अपृच्छतागोह्य क इदं नो अबूबुधत् ।
श्वानम् बस्तो बोधयितारम् अब्रवीत् संवत्सर इदम् अद्या व्य् अख्यत ॥

1.161.14

दिवा यान्ति मरुतो भूम्याग्निर् अयं वातो अन्तरिक्षेण याति ।
अद्भिर् याति वरुणः समुद्रैर् युष्माँ इच्छन्तः शवसो नपातः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc