भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.160

1.160.01

ते हि द्यावापृथिवी विश्वशम्भुव ऋतावरी रजसो धारयत्कवी ।
सुजन्मनी धिषणे अन्तर् ईयते देवो देवी धर्मणा सूर्यः शुचिः ॥

1.160.02

उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः ।
सुधृष्टमे वपुष्ये3 न रोदसी पिता यत् सीम् अभि रूपैर् अवासयत् ॥

1.160.03

स वह्निः पुत्रः पित्रोः पवित्रवान् पुनाति धीरो भुवनानि मायया ।
धेनुं च पृश्निं वृषभं सुरेतसं विश्वाहा शुक्रम् पयो अस्य दुक्षत ॥

1.160.04

अयं देवानाम् अपसाम् अपस्तमो यो जजान रोदसी विश्वशम्भुवा ।
वि यो ममे रजसी सुक्रतूययाजरेभिः स्कम्भनेभिः सम् आनृचे ॥

1.160.05

ते नो गृणाने महिनी महि श्रवः क्षत्रं द्यावापृथिवी धासथो बृहत् ।
येनाभि कृष्टीस् ततनाम विश्वहा पनाय्यम् ओजो अस्मे सम् इन्वतम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc