भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.156

1.156.01

भवा मित्रो न शेव्यो घृतासुतिर् विभूतद्युम्न एवया उ सप्रथाः ।
अधा ते विष्णो विदुषा चिद् अर्ध्यः स्तोमो यज्ञश् च राध्यो हविष्मता ॥

1.156.02

यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति ।
यो जातम् अस्य महतो महि ब्रवत् सेद् उ श्रवोभिर् युज्यं चिद् अभ्य् असत् ॥

1.156.03

तम् उ स्तोतारः पूर्व्यं यथा विद ऋतस्य गर्भं जनुषा पिपर्तन ।
आस्य जानन्तो नाम चिद् विवक्तन महस् ते विष्णो सुमतिम् भजामहे ॥

1.156.04

तम् अस्य राजा वरुणस् तम् अश्विना क्रतुं सचन्त मारुतस्य वेधसः ।
दाधार दक्षम् उत्तमम् अहर्विदं व्रजं च विष्णुः सखिवाँ अपोर्णुते ॥

1.156.05

आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुकृते सुकृत्तरः ।
वेधा अजिन्वत् त्रिषधस्थ आर्यम् ऋतस्य भागे यजमानम् आभजत् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc