भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.155

1.155.01

प्र वः पान्तम् अन्धसो धियायते महे शूराय विष्णवे चार्चत ।
या सानुनि पर्वतानाम् अदाभ्या महस् तस्थतुर् अर्वतेव साधुना ॥

1.155.02

त्वेषम् इत्था समरणं शिमीवतोर् इन्द्राविष्णू सुतपा वाम् उरुष्यति ।
या मर्त्याय प्रतिधीयमानम् इत् कृशानोर् अस्तुर् असनाम् उरुष्यथः ॥

1.155.03

ता ईं वर्धन्ति मह्य् अस्य पौंस्यं नि मातरा नयति रेतसे भुजे ।
दधाति पुत्रो ऽवरम् परम् पितुर् नाम तृतीयम् अधि रोचने दिवः ॥

1.155.04

तत्-तद् इद् अस्य पौंस्यं गृणीमसीनस्य त्रातुर् अवृकस्य मीळ्हुषः ।
यः पार्थिवानि त्रिभिर् इद् विगामभिर् उरु क्रमिष्टोरुगायाय जीवसे ॥

1.155.05

द्वे इद् अस्य क्रमणे स्वर्दृशो ऽभिख्याय मर्त्यो भुरण्यति ।
तृतीयम् अस्य नकिर् आ दधर्षति वयश् चन पतयन्तः पतत्रिणः ॥

1.155.06

चतुर्भिः साकं नवतिं च नामभिश् चक्रं न वृत्तं व्यतीँर् अवीविपत् ।
बृहच्छरीरो विमिमान ऋक्वभिर् युवाकुमारः प्रत्य् एत्य् आहवम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc