ऋग्वेद · अध्याय 1.154
विष्णोर् नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि ।
यो अस्कभायद् उत्तरं सधस्थं विचक्रमाणस् त्रेधोरुगायः ॥
प्र तद् विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः ।
यस्योरुषु त्रिषु विक्रमणेष्व् अधिक्षियन्ति भुवनानि विश्वा ॥
प्र विष्णवे शूषम् एतु मन्म गिरिक्षित उरुगायाय वृष्णे ।
य इदं दीर्घम् प्रयतं सधस्थम् एको विममे त्रिभिर् इत् पदेभिः ॥
यस्य त्री पूर्णा मधुना पदान्य् अक्षीयमाणा स्वधया मदन्ति ।
य उ त्रिधातु पृथिवीम् उत द्याम् एको दाधार भुवनानि विश्वा ॥
तद् अस्य प्रियम् अभि पाथो अश्यां नरो यत्र देवयवो मदन्ति ।
उरुक्रमस्य स हि बन्धुर् इत्था विष्णोः पदे परमे मध्व उत्सः ॥
ता वां वास्तून्य् उश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः ।
अत्राह तद् उरुगायस्य वृष्णः परमम् पदम् अव भाति भूरि ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0