भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.148

1.148.01

मथीद् यद् ईं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम् ।
नि यं दधुर् मनुष्यासु विक्षु स्व1र् ण चित्रं वपुषे विभावम् ॥

1.148.02

ददानम् इन् न ददभन्त मन्माग्निर् वरूथम् मम तस्य चाकन् ।
जुषन्त विश्वान्य् अस्य कर्मोपस्तुतिम् भरमाणस्य कारोः ॥

1.148.03

नित्ये चिन् नु यं सदने जगृभ्रे प्रशस्तिभिर् दधिरे यज्ञियासः ।
प्र सू नयन्त गृभयन्त इष्टाव् अश्वासो न रथ्यो रारहाणाः ॥

1.148.04

पुरूणि दस्मो नि रिणाति जम्भैर् आद् रोचते वन आ विभावा ।
आद् अस्य वातो अनु वाति शोचिर् अस्तुर् न शर्याम् असनाम् अनु द्यून् ॥

1.148.05

न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति ।
अन्धा अपश्या न दभन्न् अभिख्या नित्यास ईम् प्रेतारो अरक्षन् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc