ऋग्वेद · अध्याय 1.149
महः स राय एषते पतिर् दन्न् इन इनस्य वसुनः पद आ ।
उप ध्रजन्तम् अद्रयो विधन्न् इत् ॥
स यो वृषा नरां न रोदस्योः श्रवोभिर् अस्ति जीवपीतसर्गः ।
प्र यः सस्राणः शिश्रीत योनौ ॥
आ यः पुरं नार्मिणीम् अदीदेद् अत्यः कविर् नभन्यो3 नार्वा ।
सूरो न रुरुक्वाञ् छतात्मा ॥
अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचानो अस्थात् ।
होता यजिष्ठो अपां सधस्थे ॥
अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या ।
मर्तो यो अस्मै सुतुको ददाश ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0