ऋग्वेद · अध्याय 1.143
प्र तव्यसीं नव्यसीं धीतिम् अग्नये वाचो मतिं सहसः सूनवे भरे ।
अपां नपाद् यो वसुभिः सह प्रियो होता पृथिव्यां न्य् असीदद् ऋत्वियः ॥
स जायमानः परमे व्योमन्य् आविर् अग्निर् अभवन् मातरिश्वने ।
अस्य क्रत्वा समिधानस्य मज्मना प्र द्यावा शोचिः पृथिवी अरोचयत् ॥
अस्य त्वेषा अजरा अस्य भानवः सुसंदृशः सुप्रतीकस्य सुद्युतः ।
भात्वक्षसो अत्य् अक्तुर् न सिन्धवो ऽग्ने रेजन्ते अससन्तो अजराः ॥
यम् एरिरे भृगवो विश्ववेदसं नाभा पृथिव्या भुवनस्य मज्मना ।
अग्निं तं गीर्भिर् हिनुहि स्व आ दमे य एको वस्वो वरुणो न राजति ॥
न यो वराय मरुताम् इव स्वनः सेनेव सृष्टा दिव्या यथाशनिः ।
अग्निर् जम्भैस् तिगितैर् अत्ति भर्वति योधो न शत्रून् स वना न्य् ऋञ्जते ॥
कुविन् नो अग्निर् उचथस्य वीर् असद् वसुष् कुविद् वसुभिः कामम् आवरत् ।
चोदः कुवित् तुतुज्यात् सातये धियः शुचिप्रतीकं तम् अया धिया गृणे ॥
घृतप्रतीकं व ऋतस्य धूर्षदम् अग्निम् मित्रं न समिधान ऋञ्जते ।
इन्धानो अक्रो विदथेषु दीद्यच् छुक्रवर्णाम् उद् उ नो यंसते धियम् ॥
अप्रयुच्छन्न् अप्रयुच्छद्भिर् अग्ने शिवेभिर् नः पायुभिः पाहि शग्मैः ।
अदब्धेभिर् अदृपितेभिर् इष्टे ऽनिमिषद्भिः परि पाहि नो जाः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0