भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.139

1.139.01

अस्तु श्रौषट् पुरो अग्निं धिया दध आ नु तच् छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे ।
यद् ध क्राणा विवस्वति नाभा संदायि नव्यसी ।
अध प्र सू न उप यन्तु धीतयो देवाँ अच्छा न धीतयः ॥

1.139.02

यद् ध त्यन् मित्रावरुणाव् ऋताद् अध्य् आददाथे अनृतं स्वेन मन्युना दक्षस्य स्वेन मन्युना ।
युवोर् इत्थाधि सद्मस्व् अपश्याम हिरण्ययम् ।
धीभिश् चन मनसा स्वेभिर् अक्षभिः सोमस्य स्वेभिर् अक्षभिः ॥

1.139.03

युवां स्तोमेभिर् देवयन्तो अश्विनाश्रावयन्त इव श्लोकम् आयवो युवां हव्याभ्य् आ3यवः ।
युवोर् विश्वा अधि श्रियः पृक्षश् च विश्ववेदसा ।
प्रुषायन्ते वाम् पवयो हिरण्यये रथे दस्रा हिरण्यये ॥

1.139.04

अचेति दस्रा व्य् उ1 नाकम् ऋण्वथो युञ्जते वां रथयुजो दिविष्टिष्व् अध्वस्मानो दिविष्टिषु ।
अधि वां स्थाम वन्धुरे रथे दस्रा हिरण्यये ।
पथेव यन्ताव् अनुशासता रजो ऽञ्जसा शासता रजः ॥

1.139.05

शचीभिर् नः शचीवसू दिवा नक्तं दशस्यतम् ।
मा वां रातिर् उप दसत् कदा चनास्मद् रातिः कदा चन ॥

1.139.06

वृषन्न् इन्द्र वृषपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस् तुभ्यं सुतास उद्भिदः ।
ते त्वा मन्दन्तु दावने महे चित्राय राधसे ।
गीर्भिर् गिर्वाहः स्तवमान आ गहि सुमृळीको न आ गहि ॥

1.139.07

ओ षू णो अग्ने शृणुहि त्वम् ईळितो देवेभ्यो ब्रवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः ।
यद् ध त्याम् अङ्गिरोभ्यो धेनुं देवा अदत्तन ।
वि तां दुह्रे अर्यमा कर्तरी सचाँ एष तां वेद मे सचा ॥

1.139.08

मो षु वो अस्मद् अभि तानि पौंस्या सना भूवन् द्युम्नानि मोत जारिषुर् अस्मत् पुरोत जारिषुः ।
यद् वश् चित्रं युगे-युगे नव्यं घोषाद् अमर्त्यम् ।
अस्मासु तन् मरुतो यच् च दुष्टरं दिधृता यच् च दुष्टरम् ॥

1.139.09

दध्यङ् ह मे जनुषम् पूर्वो अङ्गिराः प्रियमेधः कण्वो अत्रिर् मनुर् विदुस् ते मे पूर्वे मनुर् विदुः ।
तेषां देवेष्व् आयतिर् अस्माकं तेषु नाभयः ।
तेषाम् पदेन मह्य् आ नमे गिरेन्द्राग्नी आ नमे गिरा ॥

1.139.10

होता यक्षद् वनिनो वन्त वार्यम् बृहस्पतिर् यजति वेन उक्षभिः पुरुवारेभिर् उक्षभिः ।
जगृभ्मा दूरआदिशं श्लोकम् अद्रेर् अध त्मना ।
अधारयद् अररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः ॥

1.139.11

ये देवासो दिव्य् एकादश स्थ पृथिव्याम् अध्य् एकादश स्थ ।
अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञम् इमं जुषध्वम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc