भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.138

1.138.01

प्र-प्र पूष्णस् तुविजातस्य शस्यते महित्वम् अस्य तवसो न तन्दते स्तोत्रम् अस्य न तन्दते ।
अर्चामि सुम्नयन्न् अहम् अन्त्यूतिम् मयोभुवम् ।
विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः ॥

1.138.02

प्र हि त्वा पूषन्न् अजिरं न यामनि स्तोमेभिः कृण्व ऋणवो यथा मृध उष्ट्रो न पीपरो मृधः ।
हुवे यत् त्वा मयोभुवं देवं सख्याय मर्त्यः ।
अस्माकम् आङ्गूषान् द्युम्निनस् कृधि वाजेषु द्युम्निनस् कृधि ॥

1.138.03

यस्य ते पूषन् सख्ये विपन्यवः क्रत्वा चित् सन्तो ऽवसा बुभुज्रिर इति क्रत्वा बुभुज्रिरे ।
ताम् अनु त्वा नवीयसीं नियुतं राय ईमहे ।
अहेळमान उरुशंस सरी भव वाजे-वाजे सरी भव ॥

1.138.04

अस्या ऊ षु ण उप सातये भुवो ऽहेळमानो ररिवाँ अजाश्व श्रवस्यताम् अजाश्व ।
ओ षु त्वा ववृतीमहि स्तोमेभिर् दस्म साधुभिः ।
नहि त्वा पूषन्न् अतिमन्य आघृणे न ते सख्यम् अपह्नुवे ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc