भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.137

1.137.01

सुषुमा यातम् अद्रिभिर् गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे ।
आ राजाना दिविस्पृशास्मत्रा गन्तम् उप नः ।
इमे वाम् मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः ॥

1.137.02

इम आ यातम् इन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः ।
उत वाम् उषसो बुधि साकं सूर्यस्य रश्मिभिः ।
सुतो मित्राय वरुणाय पीतये चारुर् ऋताय पीतये ॥

1.137.03

तां वां धेनुं न वासरीम् अंशुं दुहन्त्य् अद्रिभिः सोमं दुहन्त्य् अद्रिभिः ।
अस्मत्रा गन्तम् उप नो ऽर्वाञ्चा सोमपीतये ।
अयं वाम् मित्रावरुणा नृभिः सुतः सोम आ पीतये सुतः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc