ऋग्वेद · अध्याय 1.136
प्र सु ज्येष्ठं निचिराभ्याम् बृहन् नमो हव्यम् मतिम् भरता मृळयद्भ्यां स्वादिष्ठम् मृळयद्भ्याम् ।
ता सम्राजा घृतासुती यज्ञे-यज्ञ उपस्तुता ।
अथैनोः क्षत्रं न कुतश् चनाधृषे देवत्वं नू चिद् आधृषे ॥
अदर्शि गातुर् उरवे वरीयसी पन्था ऋतस्य सम् अयंस्त रश्मिभिश् चक्षुर् भगस्य रश्मिभिः ।
द्युक्षम् मित्रस्य सादनम् अर्यम्णो वरुणस्य च ।
अथा दधाते बृहद् उक्थ्य1ं वय उपस्तुत्यम् बृहद् वयः ॥
ज्योतिष्मतीम् अदितिं धारयत्क्षितिं स्वर्वतीम् आ सचेते दिवे-दिवे जागृवांसा दिवे-दिवे ।
ज्योतिष्मत् क्षत्रम् आशाते आदित्या दानुनस् पती ।
मित्रस् तयोर् वरुणो यातयज्जनो ऽर्यमा यातयज्जनः ॥
अयम् मित्राय वरुणाय शंतमः सोमो भूत्व् अवपानेष्व् आभगो देवो देवेष्व् आभगः ।
तं देवासो जुषेरत विश्वे अद्य सजोषसः ।
तथा राजाना करथो यद् ईमह ऋतावाना यद् ईमहे ॥
यो मित्राय वरुणायाविधज् जनो ऽनर्वाणं तम् परि पातो अंहसो दाश्वांसम् मर्तम् अंहसः ।
तम् अर्यमाभि रक्षत्य् ऋजूयन्तम् अनु व्रतम् ।
उक्थैर् य एनोः परिभूषति व्रतं स्तोमैर् आभूषति व्रतम् ॥
नमो दिवे बृहते रोदसीभ्याम् मित्राय वोचं वरुणाय मीळ्हुषे सुमृळीकाय मीळ्हुषे ।
इन्द्रम् अग्निम् उप स्तुहि द्युक्षम् अर्यमणम् भगम् ।
ज्योग् जीवन्तः प्रजया सचेमहि सोमस्योती सचेमहि ॥
ऊती देवानां वयम् इन्द्रवन्तो मंसीमहि स्वयशसो मरुद्भिः ।
अग्निर् मित्रो वरुणः शर्म यंसन् तद् अश्याम मघवानो वयं च ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0