भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.135

1.135.01

स्तीर्णम् बर्हिर् उप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर् नियुत्वते ।
तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे ।
प्र ते सुतासो मधुमन्तो अस्थिरन् मदाय क्रत्वे अस्थिरन् ॥

1.135.02

तुभ्यायं सोमः परिपूतो अद्रिभिः स्पार्हा वसानः परि कोशम् अर्षति शुक्रा वसानो अर्षति ।
तवायम् भाग आयुषु सोमो देवेषु हूयते ।
वह वायो नियुतो याह्य् अस्मयुर् जुषाणो याह्य् अस्मयुः ॥

1.135.03

आ नो नियुद्भिः शतिनीभिर् अध्वरं सहस्रिणीभिर् उप याहि वीतये वायो हव्यानि वीतये ।
तवायम् भाग ऋत्वियः सरश्मिः सूर्ये सचा ।
अध्वर्युभिर् भरमाणा अयंसत वायो शुक्रा अयंसत ॥

1.135.04

आ वां रथो नियुत्वान् वक्षद् अवसे ऽभि प्रयांसि सुधितानि वीतये वायो हव्यानि वीतये ।
पिबतम् मध्वो अन्धसः पूर्वपेयं हि वां हितम् ।
वायव् आ चन्द्रेण राधसा गतम् इन्द्रश् च राधसा गतम् ॥

1.135.05

आ वां धियो ववृत्युर् अध्वराँ उपेमम् इन्दुम् मर्मृजन्त वाजिनम् आशुम् अत्यं न वाजिनम् ।
तेषाम् पिबतम् अस्मयू आ नो गन्तम् इहोत्या ।
इन्द्रवायू सुतानाम् अद्रिभिर् युवम् मदाय वाजदा युवम् ॥

1.135.06

इमे वां सोमा अप्स्व् आ सुता इहाध्वर्युभिर् भरमाणा अयंसत वायो शुक्रा अयंसत ।
एते वाम् अभ्य् असृक्षत तिरः पवित्रम् आशवः ।
युवायवो ऽति रोमाण्य् अव्यया सोमासो अत्य् अव्यया ॥

1.135.07

अति वायो ससतो याहि शश्वतो यत्र ग्रावा वदति तत्र गच्छतं गृहम् इन्द्रश् च गच्छतम् ।
वि सूनृता ददृशे रीयते घृतम् आ पूर्णया नियुता याथो अध्वरम् इन्द्रश् च याथो अध्वरम् ॥

1.135.08

अत्राह तद् वहेथे मध्व आहुतिं यम् अश्वत्थम् उपतिष्ठन्त जायवो ऽस्मे ते सन्तु जायवः ।
साकं गावः सुवते पच्यते यवो न ते वाय उप दस्यन्ति धेनवो नाप दस्यन्ति धेनवः ॥

1.135.09

इमे ये ते सु वायो बाह्वोजसो ऽन्तर् नदी ते पतयन्त्य् उक्षणो महि व्राधन्त उक्षणः ।
धन्वञ् चिद् ये अनाशवो जीराश् चिद् अगिरौकसः ।
सूर्यस्येव रश्मयो दुर्नियन्तवो हस्तयोर् दुर्नियन्तवः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc