भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.131

1.131.01

इन्द्राय हि द्यौर् असुरो अनम्नतेन्द्राय मही पृथिवी वरीमभिर् द्युम्नसाता वरीमभिः ।
इन्द्रं विश्वे सजोषसो देवासो दधिरे पुरः ।
इन्द्राय विश्वा सवनानि मानुषा रातानि सन्तु मानुषा ॥

1.131.02

विश्वेषु हि त्वा सवनेषु तुञ्जते समानम् एकं वृषमण्यवः पृथक् स्वः सनिष्यवः पृथक् ।
तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि ।
इन्द्रं न यज्ञैश् चितयन्त आयवः स्तोमेभिर् इन्द्रम् आयवः ॥

1.131.03

वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः ।
यद् गव्यन्ता द्वा जना स्व1र् यन्ता समूहसि ।
आविष् करिक्रद् वृषणं सचाभुवं वज्रम् इन्द्र सचाभुवम् ॥

1.131.04

विदुष् टे अस्य वीर्यस्य पूरवः पुरो यद् इन्द्र शारदीर् अवातिरः सासहानो अवातिरः ।
शासस् तम् इन्द्र मर्त्यम् अयज्युं शवसस् पते ।
महीम् अमुष्णाः पृथिवीम् इमा अपो मन्दसान इमा अपः ॥

1.131.05

आद् इत् ते अस्य वीर्यस्य चर्किरन् मदेषु वृषन्न् उशिजो यद् आविथ सखीयतो यद् आविथ ।
चकर्थ कारम् एभ्यः पृतनासु प्रवन्तवे ।
ते अन्याम्-अन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥

1.131.06

उतो नो अस्या उषसो जुषेत ह्य् अ1र्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः ।
यद् इन्द्र हन्तवे मृधो वृषा वज्रिञ् चिकेतसि ।
आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥

1.131.07

त्वं तम् इन्द्र वावृधानो अस्मयुर् अमित्रयन्तं तुविजात मर्त्यं वज्रेण शूर मर्त्यम् ।
जहि यो नो अघायति शृणुष्व सुश्रवस्तमः ।
रिष्टं न यामन्न् अप भूतु दुर्मतिर् विश्वाप भूतु दुर्मतिः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc