भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.130

1.130.01

एन्द्र याह्य् उप नः परावतो नायम् अच्छा विदथानीव सत्पतिर् अस्तं राजेव सत्पतिः ।
हवामहे त्वा वयम् प्रयस्वन्तः सुते सचा ।
पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये ॥

1.130.02

पिबा सोमम् इन्द्र सुवानम् अद्रिभिः कोशेन सिक्तम् अवतं न वंसगस् तातृषाणो न वंसगः ।
मदाय हर्यताय ते तुविष्टमाय धायसे ।
आ त्वा यच्छन्तु हरितो न सूर्यम् अहा विश्वेव सूर्यम् ॥

1.130.03

अविन्दद् दिवो निहितं गुहा निधिं वेर् न गर्भम् परिवीतम् अश्मन्य् अनन्ते अन्तर् अश्मनि ।
व्रजं वज्री गवाम् इव सिषासन्न् अङ्गिरस्तमः ।
अपावृणोद् इष इन्द्रः परीवृता द्वार इषः परीवृताः ॥

1.130.04

दादृहाणो वज्रम् इन्द्रो गभस्त्योः क्षद्मेव तिग्मम् असनाय सं श्यद् अहिहत्याय सं श्यत् ।
संविव्यान ओजसा शवोभिर् इन्द्र मज्मना ।
तष्टेव वृक्षं वनिनो नि वृश्चसि परश्वेव नि वृश्चसि ॥

1.130.05

त्वं वृथा नद्य इन्द्र सर्तवे ऽच्छा समुद्रम् असृजो रथाँ इव वाजयतो रथाँ इव ।
इत ऊतीर् अयुञ्जत समानम् अर्थम् अक्षितम् ।
धेनूर् इव मनवे विश्वदोहसो जनाय विश्वदोहसः ॥

1.130.06

इमां ते वाचं वसूयन्त आयवो रथं न धीरः स्वपा अतक्षिषुः सुम्नाय त्वाम् अतक्षिषुः ।
शुम्भन्तो जेन्यं यथा वाजेषु विप्र वाजिनम् ।
अत्यम् इव शवसे सातये धना विश्वा धनानि सातये ॥

1.130.07

भिनत् पुरो नवतिम् इन्द्र पूरवे दिवोदासाय महि दाशुषे नृतो वज्रेण दाशुषे नृतो ।
अतिथिग्वाय शम्बरं गिरेर् उग्रो अवाभरत् ।
महो धनानि दयमान ओजसा विश्वा धनान्य् ओजसा ॥

1.130.08

इन्द्रः समत्सु यजमानम् आर्यम् प्रावद् विश्वेषु शतमूतिर् आजिषु स्वर्मीळ्हेष्व् आजिषु ।
मनवे शासद् अव्रतान् त्वचं कृष्णाम् अरन्धयत् ।
दक्षन् न विश्वं ततृषाणम् ओषति न्य् अर्शसानम् ओषति ॥

1.130.09

सूरश् चक्रम् प्र वृहज् जात ओजसा प्रपित्वे वाचम् अरुणो मुषायतीशान आ मुषायति ।
उशना यत् परावतो ऽजगन्न् ऊतये कवे ।
सुम्नानि विश्वा मनुषेव तुर्वणिर् अहा विश्वेव तुर्वणिः ॥

1.130.10

स नो नव्येभिर् वृषकर्मन्न् उक्थैः पुरां दर्तः पायुभिः पाहि शग्मैः ।
दिवोदासेभिर् इन्द्र स्तवानो वावृधीथा अहोभिर् इव द्यौः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc