भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.129

1.129.01

यं त्वं रथम् इन्द्र मेधसातये ऽपाका सन्तम् इषिर प्रणयसि प्रानवद्य नयसि ।
सद्यश् चित् तम् अभिष्टये करो वशश् च वाजिनम् ।
सास्माकम् अनवद्य तूतुजान वेधसाम् इमां वाचं न वेधसाम् ॥

1.129.02

स श्रुधि यः स्मा पृतनासु कासु चिद् दक्षाय्य इन्द्र भरहूतये नृभिर् असि प्रतूर्तये नृभिः ।
यः शूरैः स्व1ः सनिता यो विप्रैर् वाजं तरुता ।
तम् ईशानास इरधन्त वाजिनम् पृक्षम् अत्यं न वाजिनम् ॥

1.129.03

दस्मो हि ष्मा वृषणम् पिन्वसि त्वचं कं चिद् यावीर् अररुं शूर मर्त्यम् परिवृणक्षि मर्त्यम् ।
इन्द्रोत तुभ्यं तद् दिवे तद् रुद्राय स्वयशसे ।
मित्राय वोचं वरुणाय सप्रथः सुमृळीकाय सप्रथः ॥

1.129.04

अस्माकं व इन्द्रम् उश्मसीष्टये सखायं विश्वायुम् प्रासहं युजं वाजेषु प्रासहं युजम् ।
अस्माकम् ब्रह्मोतये ऽवा पृत्सुषु कासु चित् ।
नहि त्वा शत्रुः स्तरते स्तृणोषि यं विश्वं शत्रुं स्तृणोषि यम् ॥

1.129.05

नि षू नमातिमतिं कयस्य चित् तेजिष्ठाभिर् अरणिभिर् नोतिभिर् उग्राभिर् उग्रोतिभिः ।
नेषि णो यथा पुरानेनाः शूर मन्यसे ।
विश्वानि पूरोर् अप पर्षि वह्निर् आसा वह्निर् नो अच्छ ॥

1.129.06

प्र तद् वोचेयम् भव्यायेन्दवे हव्यो न य इषवान् मन्म रेजति रक्षोहा मन्म रेजति ।
स्वयं सो अस्मद् आ निदो वधैर् अजेत दुर्मतिम् ।
अव स्रवेद् अघशंसो ऽवतरम् अव क्षुद्रम् इव स्रवेत् ॥

1.129.07

वनेम तद् धोत्रया चितन्त्या वनेम रयिं रयिवः सुवीर्यं रण्वं सन्तं सुवीर्यम् ।
दुर्मन्मानं सुमन्तुभिर् एम् इषा पृचीमहि ।
आ सत्याभिर् इन्द्रं द्युम्नहूतिभिर् यजत्रं द्युम्नहूतिभिः ॥

1.129.08

प्र-प्रा वो अस्मे स्वयशोभिर् ऊती परिवर्ग इन्द्रो दुर्मतीनां दरीमन् दुर्मतीनाम् ।
स्वयं सा रिषयध्यै या न उपेषे अत्रैः ।
हतेम् असन् न वक्षति क्षिप्ता जूर्णिर् न वक्षति ॥

1.129.09

त्वं न इन्द्र राया परीणसा याहि पथाँ अनेहसा पुरो याह्य् अरक्षसा ।
सचस्व नः पराक आ सचस्वास्तमीक आ ।
पाहि नो दूराद् आराद् अभिष्टिभिः सदा पाह्य् अभिष्टिभिः ॥

1.129.10

त्वं न इन्द्र राया तरूषसोग्रं चित् त्वा महिमा सक्षद् अवसे महे मित्रं नावसे ।
ओजिष्ठ त्रातर् अविता रथं कं चिद् अमर्त्य ।
अन्यम् अस्मद् रिरिषेः कं चिद् अद्रिवो रिरिक्षन्तं चिद् अद्रिवः ॥

1.129.11

पाहि न इन्द्र सुष्टुत स्रिधो ऽवयाता सदम् इद् दुर्मतीनां देवः सन् दुर्मतीनाम् ।
हन्ता पापस्य रक्षसस् त्राता विप्रस्य मावतः ।
अधा हि त्वा जनिता जीजनद् वसो रक्षोहणं त्वा जीजनद् वसो ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc