ऋग्वेद · अध्याय 1.128
अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजाम् अनु व्रतम् अग्निः स्वम् अनु व्रतम् ।
विश्वश्रुष्टिः सखीयते रयिर् इव श्रवस्यते ।
अदब्धो होता नि षदद् इळस् पदे परिवीत इळस् पदे ॥
तं यज्ञसाधम् अपि वातयामस्य् ऋतस्य पथा नमसा हविष्मता देवताता हविष्मता ।
स न ऊर्जाम् उपाभृत्य् अया कृपा न जूर्यति ।
यम् मातरिश्वा मनवे परावतो देवम् भाः परावतः ॥
एवेन सद्यः पर्य् एति पार्थिवम् मुहुर्गी रेतो वृषभः कनिक्रदद् दधद् रेतः कनिक्रदत् ।
शतं चक्षाणो अक्षभिर् देवो वनेषु तुर्वणिः ।
सदो दधान उपरेषु सानुष्व् अग्निः परेषु सानुषु ॥
स सुक्रतुः पुरोहितो दमे-दमे ऽग्निर् यज्ञस्याध्वरस्य चेतति क्रत्वा यज्ञस्य चेतति ।
क्रत्वा वेधा इषूयते विश्वा जातानि पस्पशे ।
यतो घृतश्रीर् अतिथिर् अजायत वह्निर् वेधा अजायत ॥
क्रत्वा यद् अस्य तविषीषु पृञ्चते ऽग्नेर् अवेण मरुतां न भोज्येषिराय न भोज्या ।
स हि ष्मा दानम् इन्वति वसूनां च मज्मना ।
स नस् त्रासते दुरिताद् अभिह्रुतः शंसाद् अघाद् अभिह्रुतः ॥
विश्वो विहाया अरतिर् वसुर् दधे हस्ते दक्षिणे तरणिर् न शिश्रथच् छ्रवस्यया न शिश्रथत् ।
विश्वस्मा इद् इषुध्यते देवत्रा हव्यम् ओहिषे ।
विश्वस्मा इत् सुकृते वारम् ऋण्वत्य् अग्निर् द्वारा व्य् ऋण्वति ॥
स मानुषे वृजने शंतमो हितो3 ऽग्निर् यज्ञेषु जेन्यो न विश्पतिः प्रियो यज्ञेषु विश्पतिः ।
स हव्या मानुषाणाम् इळा कृतानि पत्यते ।
स नस् त्रासते वरुणस्य धूर्तेर् महो देवस्य धूर्तेः ॥
अग्निं होतारम् ईळते वसुधितिम् प्रियं चेतिष्ठम् अरतिं न्य् एरिरे हव्यवाहं न्य् एरिरे ।
विश्वायुं विश्ववेदसं होतारं यजतं कविम् ।
देवासो रण्वम् अवसे वसूयवो गीर्भी रण्वं वसूयवः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0