भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.114

1.114.01

इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः ।
यथा शम् असद् द्विपदे चतुष्पदे विश्वम् पुष्टं ग्रामे अस्मिन्न् अनातुरम् ॥

1.114.02

मृळा नो रुद्रोत नो मयस् कृधि क्षयद्वीराय नमसा विधेम ते ।
यच् छं च योश् च मनुर् आयेजे पिता तद् अश्याम तव रुद्र प्रणीतिषु ॥

1.114.03

अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः ।
सुम्नायन्न् इद् विशो अस्माकम् आ चरारिष्टवीरा जुहवाम ते हविः ॥

1.114.04

त्वेषं वयं रुद्रं यज्ञसाधं वङ्कुं कविम् अवसे नि ह्वयामहे ।
आरे अस्मद् दैव्यं हेळो अस्यतु सुमतिम् इद् वयम् अस्या वृणीमहे ॥

1.114.05

दिवो वराहम् अरुषं कपर्दिनं त्वेषं रूपं नमसा नि ह्वयामहे ।
हस्ते बिभ्रद् भेषजा वार्याणि शर्म वर्म च्छर्दिर् अस्मभ्यं यंसत् ॥

1.114.06

इदम् पित्रे मरुताम् उच्यते वचः स्वादोः स्वादीयो रुद्राय वर्धनम् ।
रास्वा च नो अमृत मर्तभोजनं त्मने तोकाय तनयाय मृळ ॥

1.114.07

मा नो महान्तम् उत मा नो अर्भकम् मा न उक्षन्तम् उत मा न उक्षितम् ।
मा नो वधीः पितरम् मोत मातरम् मा नः प्रियास् तन्वो रुद्र रीरिषः ॥

1.114.08

मा नस् तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषु रीरिषः ।
वीरान् मा नो रुद्र भामितो वधीर् हविष्मन्तः सदम् इत् त्वा हवामहे ॥

1.114.09

उप ते स्तोमान् पशुपा इवाकरं रास्वा पितर् मरुतां सुम्नम् अस्मे ।
भद्रा हि ते सुमतिर् मृळयत्तमाथा वयम् अव इत् ते वृणीमहे ॥

1.114.10

आरे ते गोघ्नम् उत पूरुषघ्नं क्षयद्वीर सुम्नम् अस्मे ते अस्तु ।
मृळा च नो अधि च ब्रूहि देवाधा च नः शर्म यच्छ द्विबर्हाः ॥

1.114.11

अवोचाम नमो अस्मा अवस्यवः शृणोतु नो हवं रुद्रो मरुत्वान् ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc