भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.113

1.113.01

इदं श्रेष्ठं ज्योतिषां ज्योतिर् आगाच् चित्रः प्रकेतो अजनिष्ट विभ्वा ।
यथा प्रसूता सवितुः सवायँ एवा रात्र्य् उषसे योनिम् आरैक् ॥

1.113.02

रुशद्वत्सा रुशती श्वेत्यागाद् आरैग् उ कृष्णा सदनान्य् अस्याः ।
समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥

1.113.03

समानो अध्वा स्वस्रोर् अनन्तस् तम् अन्यान्या चरतो देवशिष्टे ।
न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥

1.113.04

भास्वती नेत्री सूनृतानाम् अचेति चित्रा वि दुरो न आवः ।
प्रार्प्या जगद् व्य् उ नो रायो अख्यद् उषा अजीगर् भुवनानि विश्वा ॥

1.113.05

जिह्मश्ये3 चरितवे मघोन्य् आभोगय इष्टये राय उ त्वम् ।
दभ्रम् पश्यद्भ्य उर्विया विचक्ष उषा अजीगर् भुवनानि विश्वा ॥

1.113.06

क्षत्राय त्वं श्रवसे त्वम् महीया इष्टये त्वम् अर्थम् इव त्वम् इत्यै ।
विसदृशा जीविताभिप्रचक्ष उषा अजीगर् भुवनानि विश्वा ॥

1.113.07

एषा दिवो दुहिता प्रत्य् अदर्शि व्युच्छन्ती युवतिः शुक्रवासाः ।
विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगे व्य् उच्छ ॥

1.113.08

परायतीनाम् अन्व् एति पाथ आयतीनाम् प्रथमा शश्वतीनाम् ।
व्युच्छन्ती जीवम् उदीरयन्त्य् उषा मृतं कं चन बोधयन्ती ॥

1.113.09

उषो यद् अग्निं समिधे चकर्थ वि यद् आवश् चक्षसा सूर्यस्य ।
यन् मानुषान् यक्ष्यमाणाँ अजीगस् तद् देवेषु चकृषे भद्रम् अप्नः ॥

1.113.10

कियात्य् आ यत् समया भवाति या व्यूषुर् याश् च नूनं व्युच्छान् ।
अनु पूर्वाः कृपते वावशाना प्रदीध्याना जोषम् अन्याभिर् एति ॥

1.113.11

ईयुष् टे ये पूर्वतराम् अपश्यन् व्युच्छन्तीम् उषसम् मर्त्यासः ।
अस्माभिर् ऊ नु प्रतिचक्ष्याभूद् ओ ते यन्ति ये अपरीषु पश्यान् ॥

1.113.12

यावयद्द्वेषा ऋतपा ऋतेजाः सुम्नावरी सूनृता ईरयन्ती ।
सुमङ्गलीर् बिभ्रती देववीतिम् इहाद्योषः श्रेष्ठतमा व्य् उच्छ ॥

1.113.13

शश्वत् पुरोषा व्य् उवास देव्य् अथो अद्येदं व्य् आवो मघोनी ।
अथो व्य् उच्छाद् उत्तराँ अनु द्यून् अजरामृता चरति स्वधाभिः ॥

1.113.14

व्य् अ1ञ्जिभिर् दिव आतास्व् अद्यौद् अप कृष्णां निर्णिजं देव्य् आवः ।
प्रबोधयन्त्य् अरुणेभिर् अश्वैर् ओषा याति सुयुजा रथेन ॥

1.113.15

आवहन्ती पोष्या वार्याणि चित्रं केतुं कृणुते चेकिताना ।
ईयुषीणाम् उपमा शश्वतीनां विभातीनाम् प्रथमोषा व्य् अश्वैत् ॥

1.113.16

उद् ईर्ध्वं जीवो असुर् न आगाद् अप प्रागात् तम आ ज्योतिर् एति ।
आरैक् पन्थां यातवे सूर्यायागन्म यत्र प्रतिरन्त आयुः ॥

1.113.17

स्यूमना वाच उद् इयर्ति वह्निः स्तवानो रेभ उषसो विभातीः ।
अद्या तद् उच्छ गृणते मघोन्य् अस्मे आयुर् नि दिदीहि प्रजावत् ॥

1.113.18

या गोमतीर् उषसः सर्ववीरा व्युच्छन्ति दाशुषे मर्त्याय ।
वायोर् इव सूनृतानाम् उदर्के ता अश्वदा अश्नवत् सोमसुत्वा ॥

1.113.19

माता देवानाम् अदितेर् अनीकं यज्ञस्य केतुर् बृहती वि भाहि ।
प्रशस्तिकृद् ब्रह्मणे नो व्य् उ1च्छा नो जने जनय विश्ववारे ॥

1.113.20

यच् चित्रम् अप्न उषसो वहन्तीजानाय शशमानाय भद्रम् ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc