ऋग्वेद · अध्याय 1.112
ईळे द्यावापृथिवी पूर्वचित्तये ऽग्निं घर्मं सुरुचं यामन्न् इष्टये ।
याभिर् भरे कारम् अंशाय जिन्वथस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥
युवोर् दानाय सुभरा असश्चतो रथम् आ तस्थुर् वचसं न मन्तवे ।
याभिर् धियो ऽवथः कर्मन्न् इष्टये ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥
युवं तासां दिव्यस्य प्रशासने विशां क्षयथो अमृतस्य मज्मना ।
याभिर् धेनुम् अस्व1म् पिन्वथो नरा ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥
याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर्षु तरणिर् विभूषति ।
याभिस् त्रिमन्तुर् अभवद् विचक्षणस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥
याभी रेभं निवृतं सितम् अद्भ्य उद् वन्दनम् ऐरयतं स्वर् दृशे ।
याभिः कण्वम् प्र सिषासन्तम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥
याभिर् अन्तकं जसमानम् आरणे भुज्युं याभिर् अव्यथिभिर् जिजिन्वथुः ।
याभिः कर्कन्धुं वय्यं च जिन्वथस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥
याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्मम् ओम्यावन्तम् अत्रये ।
याभिः पृश्निगुम् पुरुकुत्सम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥
याभिः शचीभिर् वृषणा परावृजम् प्रान्धं श्रोणं चक्षस एतवे कृथः ।
याभिर् वर्तिकां ग्रसिताम् अमुञ्चतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥
याभिः सिन्धुम् मधुमन्तम् असश्चतं वसिष्ठं याभिर् अजराव् अजिन्वतम् ।
याभिः कुत्सं श्रुतर्यं नर्यम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥
याभिर् विश्पलां धनसाम् अथर्व्यं सहस्रमीळ्ह आजाव् अजिन्वतम् ।
याभिर् वशम् अश्व्यम् प्रेणिम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥
याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशो अक्षरत् ।
कक्षीवन्तं स्तोतारं याभिर् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥
याभी रसां क्षोदसोद्नः पिपिन्वथुर् अनश्वं याभी रथम् आवतं जिषे ।
याभिस् त्रिशोक उस्रिया उदाजत ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥
याभिः सूर्यम् परियाथः परावति मन्धातारं क्षैत्रपत्येष्व् आवतम् ।
याभिर् विप्रम् प्र भरद्वाजम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥
याभिर् महाम् अतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्य आवतम् ।
याभिः पूर्भिद्ये त्रसदस्युम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥
याभिर् वम्रं विपिपानम् उपस्तुतं कलिं याभिर् वित्तजानिं दुवस्यथः ।
याभिर् व्यश्वम् उत पृथिम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥
याभिर् नरा शयवे याभिर् अत्रये याभिः पुरा मनवे गातुम् ईषथुः ।
याभिः शारीर् आजतं स्यूमरश्मये ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥
याभिः पठर्वा जठरस्य मज्मनाग्निर् नादीदेच् चित इद्धो अज्मन्न् आ ।
याभिः शर्यातम् अवथो महाधने ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥
याभिर् अङ्गिरो मनसा निरण्यथो ऽग्रं गच्छथो विवरे गोअर्णसः ।
याभिर् मनुं शूरम् इषा समावतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥
याभिः पत्नीर् विमदाय न्यूहथुर् आ घ वा याभिर् अरुणीर् अशिक्षतम् ।
याभिः सुदास ऊहथुः सुदेव्य1ं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥
याभिः शंताती भवथो ददाशुषे भुज्युं याभिर् अवथो याभिर् अध्रिगुम् ।
ओम्यावतीं सुभराम् ऋतस्तुभं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥
याभिः कृशानुम् असने दुवस्यथो जवे याभिर् यूनो अर्वन्तम् आवतम् ।
मधु प्रियम् भरथो यत् सरड्भ्यस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥
याभिर् नरं गोषुयुधं नृषाह्ये क्षेत्रस्य साता तनयस्य जिन्वथः ।
याभी रथाँ अवथो याभिर् अर्वतस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥
याभिः कुत्सम् आर्जुनेयं शतक्रतू प्र तुर्वीतिम् प्र च दभीतिम् आवतम् ।
याभिर् ध्वसन्तिम् पुरुषन्तिम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥
अप्नस्वतीम् अश्विना वाचम् अस्मे कृतं नो दस्रा वृषणा मनीषाम् ।
अद्यूत्ये ऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ ॥
द्युभिर् अक्तुभिः परि पातम् अस्मान् अरिष्टेभिर् अश्विना सौभगेभिः ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0