ऋग्वेद · अध्याय 1.111
तक्षन् रथं सुवृतं विद्मनापसस् तक्षन् हरी इन्द्रवाहा वृषण्वसू ।
तक्षन् पितृभ्याम् ऋभवो युवद् वयस् तक्षन् वत्साय मातरं सचाभुवम् ॥
आ नो यज्ञाय तक्षत ऋभुमद् वयः क्रत्वे दक्षाय सुप्रजावतीम् इषम् ।
यथा क्षयाम सर्ववीरया विशा तन् नः शर्धाय धासथा स्व् इन्द्रियम् ॥
आ तक्षत सातिम् अस्मभ्यम् ऋभवः सातिं रथाय सातिम् अर्वते नरः ।
सातिं नो जैत्रीं सम् महेत विश्वहा जामिम् अजामिम् पृतनासु सक्षणिम् ॥
ऋभुक्षणम् इन्द्रम् आ हुव ऊतय ऋभून् वाजान् मरुतः सोमपीतये ।
उभा मित्रावरुणा नूनम् अश्विना ते नो हिन्वन्तु सातये धिये जिषे ॥
ऋभुर् भराय सं शिशातु सातिं समर्यजिद् वाजो अस्माँ अविष्टु ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0