भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.107

1.107.01

यज्ञो देवानाम् प्रत्य् एति सुम्नम् आदित्यासो भवता मृळयन्तः ।
आ वो ऽर्वाची सुमतिर् ववृत्याद् अंहोश् चिद् या वरिवोवित्तरासत् ॥

1.107.02

उप नो देवा अवसा गमन्त्व् अङ्गिरसां सामभिः स्तूयमानाः ।
इन्द्र इन्द्रियैर् मरुतो मरुद्भिर् आदित्यैर् नो अदितिः शर्म यंसत् ॥

1.107.03

तन् न इन्द्रस् तद् वरुणस् तद् अग्निस् तद् अर्यमा तत् सविता चनो धात् ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc