ऋग्वेद · अध्याय 1.103
तत् त इन्द्रियम् परमम् पराचैर् अधारयन्त कवयः पुरेदम् ।
क्षमेदम् अन्यद् दिव्य् अ1न्यद् अस्य सम् ई पृच्यते समनेव केतुः ॥
स धारयत् पृथिवीम् पप्रथच् च वज्रेण हत्वा निर् अपः ससर्ज ।
अहन्न् अहिम् अभिनद् रौहिणं व्य् अहन् व्यंसम् मघवा शचीभिः ॥
स जातूभर्मा श्रद्दधान ओजः पुरो विभिन्दन्न् अचरद् वि दासीः ।
विद्वान् वज्रिन् दस्यवे हेतिम् अस्यार्यं सहो वर्धया द्युम्नम् इन्द्र ॥
तद् ऊचुषे मानुषेमा युगानि कीर्तेन्यम् मघवा नाम बिभ्रत् ।
उपप्रयन् दस्युहत्याय वज्री यद् ध सूनुः श्रवसे नाम दधे ॥
तद् अस्येदम् पश्यता भूरि पुष्टं श्रद् इन्द्रस्य धत्तन वीर्याय ।
स गा अविन्दत् सो अविन्दद् अश्वान् स ओषधीः सो अपः स वनानि ॥
भूरिकर्मणे वृषभाय वृष्णे सत्यशुष्माय सुनवाम सोमम् ।
य आदृत्या परिपन्थीव शूरो ऽयज्वनो विभजन्न् एति वेदः ॥
तद् इन्द्र प्रेव वीर्यं चकर्थ यत् ससन्तं वज्रेणाबोधयो ऽहिम् ।
अनु त्वा पत्नीर् हृषितं वयश् च विश्वे देवासो अमदन्न् अनु त्वा ॥
शुष्णम् पिप्रुं कुयवं वृत्रम् इन्द्र यदावधीर् वि पुरः शम्बरस्य ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0