भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.102

1.102.01

इमां ते धियम् प्र भरे महो महीम् अस्य स्तोत्रे धिषणा यत् त आनजे ।
तम् उत्सवे च प्रसवे च सासहिम् इन्द्रं देवासः शवसामदन्न् अनु ॥

1.102.02

अस्य श्रवो नद्यः सप्त बिभ्रति द्यावाक्षामा पृथिवी दर्शतं वपुः ।
अस्मे सूर्याचन्द्रमसाभिचक्षे श्रद्धे कम् इन्द्र चरतो वितर्तुरम् ॥

1.102.03

तं स्मा रथम् मघवन् प्राव सातये जैत्रं यं ते अनुमदाम संगमे ।
आजा न इन्द्र मनसा पुरुष्टुत त्वायद्भ्यो मघवञ् छर्म यच्छ नः ॥

1.102.04

वयं जयेम त्वया युजा वृतम् अस्माकम् अंशम् उद् अवा भरे-भरे ।
अस्मभ्यम् इन्द्र वरिवः सुगं कृधि प्र शत्रूणाम् मघवन् वृष्ण्या रुज ॥

1.102.05

नाना हि त्वा हवमाना जना इमे धनानां धर्तर् अवसा विपन्यवः ।
अस्माकं स्मा रथम् आ तिष्ठ सातये जैत्रं हीन्द्र निभृतम् मनस् तव ॥

1.102.06

गोजिता बाहू अमितक्रतुः सिमः कर्मन्-कर्मञ् छतमूतिः खजंकरः ।
अकल्प इन्द्रः प्रतिमानम् ओजसाथा जना वि ह्वयन्ते सिषासवः ॥

1.102.07

उत् ते शतान् मघवन्न् उच् च भूयस उत् सहस्राद् रिरिचे कृष्टिषु श्रवः ।
अमात्रं त्वा धिषणा तित्विषे मह्य् अधा वृत्राणि जिघ्नसे पुरंदर ॥

1.102.08

त्रिविष्टिधातु प्रतिमानम् ओजसस् तिस्रो भूमीर् नृपते त्रीणि रोचना ।
अतीदं विश्वम् भुवनं ववक्षिथाशत्रुर् इन्द्र जनुषा सनाद् असि ॥

1.102.09

त्वां देवेषु प्रथमं हवामहे त्वम् बभूथ पृतनासु सासहिः ।
सेमं नः कारुम् उपमन्युम् उद्भिदम् इन्द्रः कृणोतु प्रसवे रथम् पुरः ॥

1.102.10

त्वं जिगेथ न धना रुरोधिथार्भेष्व् आजा मघवन् महत्सु च ।
त्वाम् उग्रम् अवसे सं शिशीमस्य् अथा न इन्द्र हवनेषु चोदय ॥

1.102.11

विश्वाहेन्द्रो अधिवक्ता नो अस्त्व् अपरिह्वृताः सनुयाम वाजम् ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc