भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.101

1.101.01

प्र मन्दिने पितुमद् अर्चता वचो यः कृष्णगर्भा निरहन्न् ऋजिश्वना ।
अवस्यवो वृषणं वज्रदक्षिणम् मरुत्वन्तं सख्याय हवामहे ॥

1.101.02

यो व्यंसं जाहृषाणेन मन्युना यः शम्बरं यो अहन् पिप्रुम् अव्रतम् ।
इन्द्रो यः शुष्णम् अशुषं न्य् आवृणङ् मरुत्वन्तं सख्याय हवामहे ॥

1.101.03

यस्य द्यावापृथिवी पौंस्यम् महद् यस्य व्रते वरुणो यस्य सूर्यः ।
यस्येन्द्रस्य सिन्धवः सश्चति व्रतम् मरुत्वन्तं सख्याय हवामहे ॥

1.101.04

यो अश्वानां यो गवां गोपतिर् वशी य आरितः कर्मणि-कर्मणि स्थिरः ।
वीळोश् चिद् इन्द्रो यो असुन्वतो वधो मरुत्वन्तं सख्याय हवामहे ॥

1.101.05

यो विश्वस्य जगतः प्राणतस् पतिर् यो ब्रह्मणे प्रथमो गा अविन्दत् ।
इन्द्रो यो दस्यूँर् अधराँ अवातिरन् मरुत्वन्तं सख्याय हवामहे ॥

1.101.06

यः शूरेभिर् हव्यो यश् च भीरुभिर् यो धावद्भिर् हूयते यश् च जिग्युभिः ।
इन्द्रं यं विश्वा भुवनाभि संदधुर् मरुत्वन्तं सख्याय हवामहे ॥

1.101.07

रुद्राणाम् एति प्रदिशा विचक्षणो रुद्रेभिर् योषा तनुते पृथु ज्रयः ।
इन्द्रम् मनीषा अभ्य् अर्चति श्रुतम् मरुत्वन्तं सख्याय हवामहे ॥

1.101.08

यद् वा मरुत्वः परमे सधस्थे यद् वावमे वृजने मादयासे ।
अत आ याह्य् अध्वरं नो अच्छा त्वाया हविश् चकृमा सत्यराधः ॥

1.101.09

त्वायेन्द्र सोमं सुषुमा सुदक्ष त्वाया हविश् चकृमा ब्रह्मवाहः ।
अधा नियुत्वः सगणो मरुद्भिर् अस्मिन् यज्ञे बर्हिषि मादयस्व ॥

1.101.10

मादयस्व हरिभिर् ये त इन्द्र वि ष्यस्व शिप्रे वि सृजस्व धेने ।
आ त्वा सुशिप्र हरयो वहन्तूशन् हव्यानि प्रति नो जुषस्व ॥

1.101.11

मरुत्स्तोत्रस्य वृजनस्य गोपा वयम् इन्द्रेण सनुयाम वाजम् ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc