भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.100

1.100.01

स यो वृषा वृष्ण्येभिः समोका महो दिवः पृथिव्याश् च सम्राट् ।
सतीनसत्वा हव्यो भरेषु मरुत्वान् नो भवत्व् इन्द्र ऊती ॥

1.100.02

यस्यानाप्तः सूर्यस्येव यामो भरे-भरे वृत्रहा शुष्मो अस्ति ।
वृषन्तमः सखिभिः स्वेभिर् एवैर् मरुत्वान् नो भवत्व् इन्द्र ऊती ॥

1.100.03

दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति शवसापरीताः ।
तरद्द्वेषाः सासहिः पौंस्येभिर् मरुत्वान् नो भवत्व् इन्द्र ऊती ॥

1.100.04

सो अङ्गिरोभिर् अङ्गिरस्तमो भूद् वृषा वृषभिः सखिभिः सखा सन् ।
ऋग्मिभिर् ऋग्मी गातुभिर् ज्येष्ठो मरुत्वान् नो भवत्व् इन्द्र ऊती ॥

1.100.05

स सूनुभिर् न रुद्रेभिर् ऋभ्वा नृषाह्ये सासह्वाँ अमित्रान् ।
सनीळेभिः श्रवस्यानि तूर्वन् मरुत्वान् नो भवत्व् इन्द्र ऊती ॥

1.100.06

स मन्युमीः समदनस्य कर्तास्माकेभिर् नृभिः सूर्यं सनत् ।
अस्मिन्न् अहन् सत्पतिः पुरुहूतो मरुत्वान् नो भवत्व् इन्द्र ऊती ॥

1.100.07

तम् ऊतयो रणयञ् छूरसातौ तं क्षेमस्य क्षितयः कृण्वत त्राम् ।
स विश्वस्य करुणस्येश एको मरुत्वान् नो भवत्व् इन्द्र ऊती ॥

1.100.08

तम् अप्सन्त शवस उत्सवेषु नरो नरम् अवसे तं धनाय ।
सो अन्धे चित् तमसि ज्योतिर् विदन् मरुत्वान् नो भवत्व् इन्द्र ऊती ॥

1.100.09

स सव्येन यमति व्राधतश् चित् स दक्षिणे संगृभीता कृतानि ।
स कीरिणा चित् सनिता धनानि मरुत्वान् नो भवत्व् इन्द्र ऊती ॥

1.100.10

स ग्रामेभिः सनिता स रथेभिर् विदे विश्वाभिः कृष्टिभिर् न्व् अ1द्य ।
स पौंस्येभिर् अभिभूर् अशस्तीर् मरुत्वान् नो भवत्व् इन्द्र ऊती ॥

1.100.11

स जामिभिर् यत् समजाति मीळ्हे ऽजामिभिर् वा पुरुहूत एवैः ।
अपां तोकस्य तनयस्य जेषे मरुत्वान् नो भवत्व् इन्द्र ऊती ॥

1.100.12

स वज्रभृद् दस्युहा भीम उग्रः सहस्रचेताः शतनीथ ऋभ्वा ।
चम्रीषो न शवसा पाञ्चजन्यो मरुत्वान् नो भवत्व् इन्द्र ऊती ॥

1.100.13

तस्य वज्रः क्रन्दति स्मत् स्वर्षा दिवो न त्वेषो रवथः शिमीवान् ।
तं सचन्ते सनयस् तं धनानि मरुत्वान् नो भवत्व् इन्द्र ऊती ॥

1.100.14

यस्याजस्रं शवसा मानम् उक्थम् परिभुजद् रोदसी विश्वतः सीम् ।
स पारिषत् क्रतुभिर् मन्दसानो मरुत्वान् नो भवत्व् इन्द्र ऊती ॥

1.100.15

न यस्य देवा देवता न मर्ता आपश् चन शवसो अन्तम् आपुः ।
स प्ररिक्वा त्वक्षसा क्ष्मो दिवश् च मरुत्वान् नो भवत्व् इन्द्र ऊती ॥

1.100.16

रोहिच् छ्यावा सुमदंशुर् ललामीर् द्युक्षा राय ऋज्राश्वस्य ।
वृषण्वन्तम् बिभ्रती धूर्षु रथम् मन्द्रा चिकेत नाहुषीषु विक्षु ॥

1.100.17

एतत् त्यत् त इन्द्र वृष्ण उक्थं वार्षागिरा अभि गृणन्ति राधः ।
ऋज्राश्वः प्रष्टिभिर् अम्बरीषः सहदेवो भयमानः सुराधाः ॥

1.100.18

दस्यूञ् छिम्यूँश् च पुरुहूत एवैर् हत्वा पृथिव्यां शर्वा नि बर्हीत् ।
सनत् क्षेत्रं सखिभिः श्वित्न्येभिः सनत् सूर्यं सनद् अपः सुवज्रः ॥

1.100.19

विश्वाहेन्द्रो अधिवक्ता नो अस्त्व् अपरिह्वृताः सनुयाम वाजम् ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc