ऋग्वेद · अध्याय 1.091
त्वं सोम प्र चिकितो मनीषा त्वं रजिष्ठम् अनु नेषि पन्थाम् ।
तव प्रणीती पितरो न इन्दो देवेषु रत्नम् अभजन्त धीराः ॥
त्वं सोम क्रतुभिः सुक्रतुर् भूस् त्वं दक्षैः सुदक्षो विश्ववेदाः ।
त्वं वृषा वृषत्वेभिर् महित्वा द्युम्नेभिर् द्युम्न्य् अभवो नृचक्षाः ॥
राज्ञो नु ते वरुणस्य व्रतानि बृहद् गभीरं तव सोम धाम ।
शुचिष् ट्वम् असि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥
या ते धामानि दिवि या पृथिव्यां या पर्वतेष्व् ओषधीष्व् अप्सु ।
तेभिर् नो विश्वैः सुमना अहेळन् राजन् सोम प्रति हव्या गृभाय ॥
त्वं सोमासि सत्पतिस् त्वं राजोत वृत्रहा ।
त्वम् भद्रो असि क्रतुः ॥
त्वं च सोम नो वशो जीवातुं न मरामहे ।
प्रियस्तोत्रो वनस्पतिः ॥
त्वं सोम महे भगं त्वं यून ऋतायते ।
दक्षं दधासि जीवसे ॥
त्वं नः सोम विश्वतो रक्षा राजन्न् अघायतः ।
न रिष्येत् त्वावतः सखा ॥
सोम यास् ते मयोभुव ऊतयः सन्ति दाशुषे ।
ताभिर् नो ऽविता भव ॥
इमं यज्ञम् इदं वचो जुजुषाण उपागहि ।
सोम त्वं नो वृधे भव ॥
सोम गीर्भिष् ट्वा वयं वर्धयामो वचोविदः ।
सुमृळीको न आ विश ॥
गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः ।
सुमित्रः सोम नो भव ॥
सोम रारन्धि नो हृदि गावो न यवसेष्व् आ ।
मर्य इव स्व ओक्ये ॥
यः सोम सख्ये तव रारणद् देव मर्त्यः ।
तं दक्षः सचते कविः ॥
उरुष्या णो अभिशस्तेः सोम नि पाह्य् अंहसः ।
सखा सुशेव एधि नः ॥
आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्ण्यम् ।
भवा वाजस्य संगथे ॥
आ प्यायस्व मदिन्तम सोम विश्वेभिर् अंशुभिः ।
भवा नः सुश्रवस्तमः सखा वृधे ॥
सं ते पयांसि सम् उ यन्तु वाजाः सं वृष्ण्यान्य् अभिमातिषाहः ।
आप्यायमानो अमृताय सोम दिवि श्रवांस्य् उत्तमानि धिष्व ॥
या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूर् अस्तु यज्ञम् ।
गयस्फानः प्रतरणः सुवीरो ऽवीरहा प्र चरा सोम दुर्यान् ॥
सोमो धेनुं सोमो अर्वन्तम् आशुं सोमो वीरं कर्मण्यं ददाति ।
सादन्यं विदथ्यं सभेयम् पितृश्रवणं यो ददाशद् अस्मै ॥
अषाळ्हं युत्सु पृतनासु पप्रिं स्वर्षाम् अप्सां वृजनस्य गोपाम् ।
भरेषुजां सुक्षितिं सुश्रवसं जयन्तं त्वाम् अनु मदेम सोम ॥
त्वम् इमा ओषधीः सोम विश्वास् त्वम् अपो अजनयस् त्वं गाः ।
त्वम् आ ततन्थोर्व् अ1न्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥
देवेन नो मनसा देव सोम रायो भागं सहसावन्न् अभि युध्य ।
मा त्वा तनद् ईशिषे वीर्यस्योभयेभ्यः प्र चिकित्सा गविष्टौ ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0