ऋग्वेद · अध्याय 1.090
ऋजुनीती नो वरुणो मित्रो नयतु विद्वान् ।
अर्यमा देवैः सजोषाः ॥
ते हि वस्वो वसवानास् ते अप्रमूरा महोभिः ।
व्रता रक्षन्ते विश्वाहा ॥
ते अस्मभ्यं शर्म यंसन्न् अमृता मर्त्येभ्यः ।
बाधमाना अप द्विषः ॥
वि नः पथः सुविताय चियन्त्व् इन्द्रो मरुतः ।
पूषा भगो वन्द्यासः ॥
उत नो धियो गोअग्राः पूषन् विष्णव् एवयावः ।
कर्ता नः स्वस्तिमतः ॥
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर् नः सन्त्व् ओषधीः ॥
मधु नक्तम् उतोषसो मधुमत् पार्थिवं रजः ।
मधु द्यौर् अस्तु नः पिता ॥
मधुमान् नो वनस्पतिर् मधुमाँ अस्तु सूर्यः ।
माध्वीर् गावो भवन्तु नः ॥
शं नो मित्रः शं वरुणः शं नो भवत्व् अर्यमा ।
शं न इन्द्रो बृहस्पतिः शं नो विष्णुर् उरुक्रमः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0