भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.089

1.089.01

आ नो भद्राः क्रतवो यन्तु विश्वतो ऽदब्धासो अपरीतास उद्भिदः ।
देवा नो यथा सदम् इद् वृधे असन्न् अप्रायुवो रक्षितारो दिवे-दिवे ॥

1.089.02

देवानाम् भद्रा सुमतिर् ऋजूयतां देवानां रातिर् अभि नो नि वर्तताम् ।
देवानां सख्यम् उप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे ॥

1.089.03

तान् पूर्वया निविदा हूमहे वयम् भगम् मित्रम् अदितिं दक्षम् अस्रिधम् ।
अर्यमणं वरुणं सोमम् अश्विना सरस्वती नः सुभगा मयस् करत् ॥

1.089.04

तन् नो वातो मयोभु वातु भेषजं तन् माता पृथिवी तत् पिता द्यौः ।
तद् ग्रावाणः सोमसुतो मयोभुवस् तद् अश्विना शृणुतं धिष्ण्या युवम् ॥

1.089.05

तम् ईशानं जगतस् तस्थुषस् पतिं धियंजिन्वम् अवसे हूमहे वयम् ।
पूषा नो यथा वेदसाम् असद् वृधे रक्षिता पायुर् अदब्धः स्वस्तये ॥

1.089.06

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस् तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर् दधातु ॥

1.089.07

पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः ।
अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्न् इह ॥

1.089.08

भद्रं कर्णेभिः शृणुयाम देवा भद्रम् पश्येमाक्षभिर् यजत्राः ।
स्थिरैर् अङ्गैस् तुष्टुवांसस् तनूभिर् व्य् अशेम देवहितं यद् आयुः ॥

1.089.09

शतम् इन् नु शरदो अन्ति देवा यत्रा नश् चक्रा जरसं तनूनाम् ।
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर् गन्तोः ॥

1.089.10

अदितिर् द्यौर् अदितिर् अन्तरिक्षम् अदितिर् माता स पिता स पुत्रः ।
विश्वे देवा अदितिः पञ्च जना अदितिर् जातम् अदितिर् जनित्वम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc