ऋग्वेद · अध्याय 1.088
आ विद्युन्मद्भिर् मरुतः स्वर्कै रथेभिर् यात ऋष्टिमद्भिर् अश्वपर्णैः ।
आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः ॥
ते ऽरुणेभिर् वरम् आ पिशङ्गैः शुभे कं यान्ति रथतूर्भिर् अश्वैः ।
रुक्मो न चित्रः स्वधितीवान् पव्या रथस्य जङ्घनन्त भूम ॥
श्रिये कं वो अधि तनूषु वाशीर् मेधा वना न कृणवन्त ऊर्ध्वा ।
युष्मभ्यं कम् मरुतः सुजातास् तुविद्युम्नासो धनयन्ते अद्रिम् ॥
अहानि गृध्राः पर्य् आ व आगुर् इमां धियं वार्कार्यां च देवीम् ।
ब्रह्म कृण्वन्तो गोतमासो अर्कैर् ऊर्ध्वं नुनुद्र उत्सधिम् पिबध्यै ॥
एतत् त्यन् न योजनम् अचेति सस्वर् ह यन् मरुतो गोतमो वः ।
पश्यन् हिरण्यचक्रान् अयोदंष्ट्रान् विधावतो वराहून् ॥
एषा स्या वो मरुतो ऽनुभर्त्री प्रति ष्टोभति वाघतो न वाणी ।
अस्तोभयद् वृथासाम् अनु स्वधां गभस्त्योः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0