ऋग्वेद · अध्याय 1.087
प्रत्वक्षसः प्रतवसो विरप्शिनो ऽनानता अविथुरा ऋजीषिणः ।
जुष्टतमासो नृतमासो अञ्जिभिर् व्य् आनज्रे के चिद् उस्रा इव स्तृभिः ॥
उपह्वरेषु यद् अचिध्वं ययिं वय इव मरुतः केन चित् पथा ।
श्चोतन्ति कोशा उप वो रथेष्व् आ घृतम् उक्षता मधुवर्णम् अर्चते ॥
प्रैषाम् अज्मेषु विथुरेव रेजते भूमिर् यामेषु यद् ध युञ्जते शुभे ।
ते क्रीळयो धुनयो भ्राजदृष्टयः स्वयम् महित्वम् पनयन्त धूतयः ॥
स हि स्वसृत् पृषदश्वो युवा गणो3 ऽया ईशानस् तविषीभिर् आवृतः ।
असि सत्य ऋणयावानेद्यो ऽस्या धियः प्राविताथा वृषा गणः ॥
पितुः प्रत्नस्य जन्मना वदामसि सोमस्य जिह्वा प्र जिगाति चक्षसा ।
यद् ईम् इन्द्रं शम्य् ऋक्वाण आशताद् इन् नामानि यज्ञियानि दधिरे ॥
श्रियसे कम् भानुभिः सम् मिमिक्षिरे ते रश्मिभिस् त ऋक्वभिः सुखादयः ।
ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0